SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४१४ प्रथमे काण्डे वस्तु अबाधितप्रतिपत्तिजन्मनो हेतुरभ्युपगन्तव्यम् , अभ्रान्तप्रतिपत्तेर्वस्त्वव्यवस्थापकत्वेन प्रतिनियतव्यवहारोच्छेदप्रसक्तेः। अत एव उपलब्धमपि क्षणिकत्वं विषमज्ञ इव न निश्चिनोतीत्युदाहरणमप्यसिद्धम् , यथावस्तूपलम्भनियमाभावात् । ___यदपि 'ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः, यथा अन्त्या कारणसामग्री स्वकार्योत्पादने, ५विनाशं प्रत्यनपेक्षश्च भावः' इत्यभिधानम् , तदपि परिणामप्रसाधकम्; भावस्योत्तरपरिणाम प्रत्यनपेक्षतया तद्भावनियतत्वोपपत्तेः । पूर्वक्षणस्य स्वयमेवोत्तरीभवतोऽपरापेक्षाऽभावतः क्षेपायोगात्, उत्पन्नस्य चोत्पत्ति-स्थिति-विनाशेषु कारणान्तरानपेक्षस्य पुनः पुनरुत्पत्ति-स्थिति-विनाशत्रय. मवश्यं भावि तदेवं कस्यचिदंशस्य पदार्थाध्यक्षतायामप्यनिर्णये तस्य सांशतामभ्युपगच्छन् कथमंशे नोत्पन्नस्यांशान्तरेण पुनः पुनरुत्पत्तिं नाभ्युपगच्छेत् येनैकं वस्त्वनन्तपर्यायं नाङ्गीकुर्वीत ? न चैका१०न्तसाधने उदाहरणमपि किञ्चिदस्ति, अध्यक्षाधिगतमनेकान्तमन्तरेणान्तर्बहिश्च वस्तुसत्तानुपपत्तेः । न च निरन्वयविनाशमन्तरेण किञ्चिद् वस्तु अनुपपद्यमानं संवेद्यते, यतो बहीरूप-संस्थानाद्यात्मना अध्यक्षप्रतीतमनेकान्तमन्तर्विकल्पाविकल्पस्वरूपं संशय-विपर्याससंवेदनात्मकं वा स्वसंवेदनसिद्धमपहाय निरन्वयक्षणक्षयलक्षणं वस्तु प्रकल्पेत । न चानुस्यूतिव्यतिरेकेण ज्ञानानां कार्यकारण भावोऽपि युक्तिसङ्गतः आस्तां स्मृति-प्रत्यभिज्ञा-वासना-सन्तानादिव्यवहारः । नहि भेदाविशे१५षेऽपि कथञ्चित् तादात्म्यमन्तरेण भेदानामयं नियमः सिद्धिमासादयति केषाश्चिदेव, अन्यथा ग्राह्य ग्राहकाकारयोरपि तादात्म्याभावप्रसक्तिर्भवेत् यतः शक्यमत्राप्येवं वक्तुम्-ग्राह्यग्राहकानुभवयोः स्वकारणवशाद् भिन्नस्वभावयोरेव प्रतिक्षणं विशिष्टयोरुत्पत्तिस्तेन रूपेणेति । एवं च ___ "अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥” [ २० इत्ययुक्तमेवाभिधानं स्यात् । परेणापि चैवं वक्तुं शक्यत एव "परमात्माऽविभागोऽप्यविद्याविप्लतमानसैः। सुख-दुःखादिभिर्भागैर्भेदवानिव लक्ष्यते ॥” इति । न हि भेदाऽभेदैकान्तयोरागमोपलम्भं परमार्थादर्शनं च प्रति कश्चिद् विशेषः संलक्ष्यते कथञ्चित् परमार्थदर्शनाभ्युपगमे च 'उत्पन्नं कथञ्चित् पुनरुत्पादयेत्' इत्यनेकान्तसिद्धिः स्यादित्युक्तम् । २५ स्वलक्षणस्य परमात्मनो वा परमार्थसतः सर्वथाऽनुपलम्भैकान्ताभ्युपगमे परीक्षाक्षमस्य संवृतिरूपस्याविद्यास्वभावस्य वा दर्शनासम्भवाद् अनेकान्तात्मकस्य सतः सर्वथैकान्तव्युदासेन प्रमाणतो दर्शनमायातमिति कथं तत्प्रतिक्षेपः? न च संवृतेरेवोत्पाद-विनाशाभ्यपगमः, क्षणस्थितिव्यतिरेकेणापरस्य परमार्थसल्लक्षणलक्ष्यस्याभावात् क्षणस्थायिन एव स्वलक्षणताभ्युपगमात् क्षणव्यवस्थितयश्च ग्राह्यग्राहकसंवित्त्यादयोऽध्यक्षत्वेनेष्यन्ते तदस्वलक्षणत्वे कोऽपरः स्वलक्षणार्थों ३०भवेत् ? तदाकारविविक्तस्यापरस्यात्यन्तानुपलम्भतः प्रत्यक्षत्वानुपपत्तेः । न चानंशमसाधारणं स्वलक्षणं सांशमिव विपर्यासात् प्रतिभातीति वक्तव्यम् अकार्यकारणरूपं कार्यकारणरूपमिव सर्व विकल्पातीतं संविकल्पमिव पुरुषतत्त्वं प्रतिभातीत्येवं पराभिधानस्यापि सम्भवादित्यक्तत्वात् । ततश्च न कस्यचिद् उत्पादः क्षयो वा भवेत् । न चोत्पाद-विनाशयोः भ्रान्तिकल्पनायां किश्चिदप्य भ्रान्तं सिध्येत्, निरंशक्षणक्षयाद्यवभासाभावात् स्वसंवित्तिसद्भावमात्रसिद्धेरप्यभावप्रसङ्गात् । ३. क्षणक्षयाद्यवभासस्यासत्यत्वे सैवानेकान्तसिद्धिः समापतति । अथ नेयमसती संवित्तिः कुतश्चिनिमित्तात् सतीव प्रतिभाति किन्तु सत्येव प्रतिभातीत्यस्याः स्वभावसिद्धिः; नन्वेवं न सर्वथापि भ्रमः सिध्येत् किन्तु भ्रान्ताभ्रान्तैकविज्ञानाभ्युपगमादनेकान्तवाद एव पुनरपि सिद्धिमायातः। १ यभावं ल. भां. मां० आ० हा० वि० । पृ. ३२३ पं० २५ तथा टि. १२। २ "विलम्बा"योगात्बृ० ल.टि.। ३-स्तु न स-ल०। ४-पस्था-वा. बा०। ५-स्यूतव्य-ल.। ६ अष्टस• पृ. ९३ पं० १८ । स्याद्वादर० पृ० ८९ द्वि. पं०६। श्लो० वा. पार्थ० व्या० पृ. २७२ पं० १५। सर्वदर्शनसं० द.२ पृ. ३२ पं० २०६। शास्त्रवा० स्याद्वादक. पृ० २१५ द्वि. पं० २। न हि नहि मे-बृ० वा. बा। ८ "स्थूला"कारविविक्तस्य-मां.टि.। ९-स्यात्य--आ. हा. वि.। १०-कार्यकर-भां. मां०। ११ सवि. कल्पातीतं सविकल्पमिव वा. बा.। १२ "क्षणज्ञानं सत्यमसत्यं वेति विकल्पो"-मा.टि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy