SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे-- ग्राहकं स्यात् ? । अन्यस्य साध्यनिश्चायकत्वेन सौगतैरनभ्युपगमात् । तदुक्तम्-"त्रिरूपाणि च त्रीण्येव लिङ्गानि" । "अनुपलब्धिः , स्वभावः, कार्य च" इति [ध० न्या० सू०११-१२] "त्रिरूपाल्लिङ्गाल्लिङ्गिविज्ञानमनुमानम्" [ ] इति च । तत्र स्वभावहेतुः प्रत्यक्षगृहीतेऽर्थे व्यवहारमात्रप्रवर्तनफलः, यथा शिंशिपात्वादिवृक्षादिव्यवहारप्रवर्तनफलः। न च अत्यक्षाश्रितगुणलिङ्गसम्बन्धः प्रत्यक्षतः प्रतिपन्नः, येन स्वभावहेतुप्रभवमनुमानं तत्सम्बन्धव्यवहारमार- ६ चयति । नापि कार्यहेतुसमुत्थम् अक्षाश्रितगुणलिङ्गसम्बन्धग्राहकत्वेन तत् प्रभवति, कार्यहेतोः सिद्धे कार्य-कारणभावे कारणप्रतिपत्तिहेतुत्वेनाभ्युपगमात्; कार्य-कारणभावस्य च सिद्धि: प्रत्यक्षा-ऽनुपलम्भप्रमाणसम्पाद्याः न च लोचनादिगतगुणाश्रितलिङ्गसम्बन्धग्राहकत्वेन प्रत्यक्षप्रवृत्तिः, येन तत्कौर्यत्वेन कस्यचिल्लिङ्गस्य प्रत्यक्षतः प्रतिपत्तिः स्यात्, तन्न कार्यहेतोरपि प्रतिबन्धप्रतिपत्तिः। अनुपलब्धेस्त्वेवंविधे विषये प्रवृत्तिरेव न सम्भवति, तस्या अभावसाधकत्वेन व्यापाराभ्युपगमात् । न चान्यल्लिङ्गमभ्युपगम्यत इत्युक्तम् । न च प्रत्यक्षा-ऽनुमानव्यतिरिक्तं प्रमाणान्तरमिति नेन्द्रियगतगुणप्रतिपत्तिः। यन्न क्वचिदपि प्रमाणेन प्रतिभाति न तत् सद्यवहारावतारि, यथा शशशृङ्गम् ; न प्रतिभान्ति च क्वचिदपि प्रमाणेनातीन्द्रियेन्द्रियगुणा भवदभ्युपगता इति कुतस्तेषां विज्ञानोत्पादककारणव्यतिरिक्तानां प्रामाण्योत्पादकत्वम् । अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः, तदप्ययुक्तम्: यथार्थत्वा-ऽयथार्थत्वे विहाय यदि कार्यस्य उपलब्ध्याख्यस्य स्वरूपं निश्चितं भवेत् तदा यथार्थत्वलक्षणः कार्यस्य विशेषः पूर्वस्मात् कारणकलापादनिष्पद्यमानो गुणाख्यं स्वोत्पत्तौ कारणान्तरं परिकल्पयति, यदा तु यथार्थैवोपलब्धिः स्वोत्पादककारणकलापानुमापिका तदा कथमुत्पादकव्यतिरेकेणं गुणसद्भावः? । अयथार्थत्वं तूपलब्धेः कार्यस्य विशेषः पूर्वस्मात् कारणसंमुदायादनुपपद्यमानः स्वोत्पत्तौ सामग्रयन्तरं कल्पयति, अत एव परतोऽप्रामाण्यमुच्यते, तस्योत्पत्तौ दोषापेक्षत्वात् । न चेन्द्रियनैर्मल्यादि.. गुणत्वेन वक्तुं शक्यम्, नैर्मल्यं हि तत्स्वरूपमेव, न पुनरोपाधिको गुणः; तथाव्यपदेशस्तु दोषाभावनिबन्धनः। तथाहि-कामलादिदोषासत्त्वान्निर्मलमिन्द्रियमुच्यते, तत्सत्त्वे सदोषम् । मनसोऽपि मिद्धाद्यभावः स्वरूपम्, तत्सद्भावस्तु दोषः। विपयस्यापि निश्चलत्वादिः स्वभावः, चलत्वादिकस्तु दोपः । प्रमातुरपि क्षुदाद्यभावः स्वरूपम्, तत्सद्भावस्तु दोषः । तदुक्तम्"इयती च सामग्री प्रमाणोत्पादिका" [ | तदुत्पद्यमानमपि प्रामाण्यं स्वोत्पादककारणव्यतिरिक्तगुणानपेक्षत्वात् स्वत उच्यते । नाप्येतद् वक्तव्यम्-तजनकानां स्वरूपमयथार्थोपलब्ध्या समधिगतम्, यथार्थत्वं तु पूर्वस्मात् कार्यावगतात् कारकस्वरूपादुनिष्पद्यमानं किमिति गुणाख्यं सामग्यन्तरं न कल्पयति। प्रक्रियाया विपर्ययेणापि कल्पयितुं शक्यत्वात् । यतो न लोकः प्रायशो विपर्ययज्ञानात् स्वरूपस्थं कारणमप्यनुमिनोति किंतु सम्यग्ज्ञानात्; तथाविधे च कारकानुमानेऽशक्यप्रतिषेधा पूर्वोक्तप्रक्रिया । नापि तृतीयं" कार्यमस्तीत्युक्तम्। अपि चार्थतथाभावप्रकाशनरूपं प्रामाण्यम, तस्य चक्षुरादिकारणसामग्रीतो विज्ञानोत्पत्तावप्यनुत्पत्त्यभ्युपगमे विज्ञानस्य किं स्वरूपं भवद्भिरपरमभ्युपगम्यते? इति वक्तव्यम् । न च तद्रूपव्यतिरेकेण विज्ञानस्वरूपं भवन्मतेन सम्भवति, येन प्रामाण्यं तत्र विज्ञानोत्पत्तावप्यनुत्पन्नमुत्तरकालं तत्रैवोत्पत्तिमदभ्युपगम्येत; भित्ताविव चित्रम्। किंच, यदि स्वसामग्रीतो विज्ञानोत्पत्तावपि न प्रामाण्यं समुत्पद्यते, किंतु तद्यतिरिक्तसामग्रीतः पश्चाद् भवति, तदा विरुद्धधर्माध्यासात् कारणमेदाच्च भेदः स्यात् । अन्यथा “अयमेव भेदो भेदहेतुर्वा, यदुत विरुद्धधर्मा. ध्यासः, कारणमेदश्च; स चेन्न भेदको विश्वमेकं स्यात"[ ] इति वचः परिप्लवेत । १ न चाक्षाश्रित-कां, गु०। २ “अक्षात्रितगुणलिङ्गसंबन्ध" (म्)-भां. टि.। ३ "गुग" ( गुणकार्यत्वेन )-भांटि.। ४ अस्मिन् पृछे १ पटौ । ५ उपलब्ध्याख्यस्व-भां० । ६ व्यतिरेकिगुण-भा० । -समूहादनु-वा० । ८ मिन्द्धाद्य-भां० । “मिद्धं निद्रा"-गु.टि.। ९प्रमाणं-कां० । १० “यथार्थत्वा-ऽयथार्थत्वे विहाय"-भांटि.। ११ अस्मिन् पृष्ठे १६ पढ़ो। १२ "प्रमाणस्य कारणं चक्षुरादि, प्रामाण्यस्य कारणं गुणः इति कारणभेदात्"-आ टिक।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy