SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यवादः। [स्वतःप्रामाण्यपक्षः] अत्राहुर्मीमांसका:-अर्थतथात्वप्रकाशको ज्ञातृव्यापारः प्रमाणम् , तस्यार्थतथाभावप्रकाशकत्वं प्रामाण्यम्, तच्च स्वतः उत्पत्ती, स्वकार्य यथावस्थितार्थपरिच्छेदलक्षणे, स्वज्ञाने च; विज्ञानोत्पादकसामग्रीव्यतिरिक्तगुणादिसामय्यन्तर-प्रमाणान्तर-स्वसंवेदनग्रहणानपेक्षत्वात् । अपेक्षात्रयरहितं ५ च प्रामाण्यं स्वत उच्यते इति । अत्र च प्रयोगः-ये यद्भावं प्रत्यनपेक्षास्ते तत्स्वरूपनियताः, यथाऽविकला कारणसामग्री अङ्कुरोत्पादने, अनपेक्षं च प्रामाण्यमुत्पत्ती, स्वकार्ये, शप्तौ च इति ॥ [परतःप्रामाण्यपक्षः ] अत्र परतःप्रामाण्यवादिनः प्रेरयन्ति-अनपेक्षत्वमसिद्धम् । तथाहि-उत्पत्तौ तावत् प्रामाण्यं विज्ञानोत्पादककारणव्यतिरिक्तगुणादिकारणान्तरसापेक्षम्, तदन्वय-व्यतिरेकानुविधायित्वात् । १० तथाच प्रयोगः-यत् चक्षुराद्यतिरिक्तभावा-ऽभावानुविधायि तत् तत्सापेक्षम्, यथाऽप्रामाण्यम्: चक्षुराद्यतिरिक्तभावा-ऽभावानुविधायि च प्रामाण्यम् इति स्वभावहेतुः तस्मादुत्पत्ती परतः, तथा स्वकार्ये च सापेक्षत्वात् परतः । तथाहि-ये प्रतीक्षितप्रत्ययान्तरोदया न ते स्वतोव्यवस्थितधर्मकाः, यथाऽप्रामाण्यादयः, प्रतीक्षितप्रत्ययान्तरोदयं च प्रामाण्यं तत्र इति विरुद्धव्याप्तोपलब्धिः। तथा शप्तौ च सापेक्षत्वात् परतः । तथाहि-ये सन्देह-विपर्ययाऽध्यासिततनवस्ते परतोनिश्चितयथा१५ वस्थितस्वरूपाः, यथा स्थाण्वादयः, तथा च सन्देह-विपर्ययाऽध्यासितस्वभावं केपाश्चित् प्रत्ययानां प्रामाण्यमिति स्वभावहेतुः॥ [ पूर्वपक्षः-(१) उत्पत्तौ प्रामाण्यस्य स्वतस्त्वसाधनम् ] अत्र यत्तावदुक्तम्-'प्रामाण्यं विज्ञानोत्पादककारणव्यतिरिक्तगुणादिकारणसव्यपेक्षमुत्पत्तौ' तदसत् , तेषामसत्त्वात् । तदसत्त्वं च प्रमाणतोऽनुपलब्धेः । तथाहि-न तावत् प्रत्यक्षं चक्षुरादीन्द्रि२० यगतान् गुणान् ग्रहीतुं समर्थम् , अतीन्द्रियत्वेनेन्द्रियाणां तहणानामपि प्रतिपत्तुमशक्तेः। अथानुमा नमिन्द्रियगुणान् प्रतिपद्यते, तदप्यसम्यक् अनुमानस्य प्रतिबद्ध लिङ्गनिश्चयबलेनोत्पत्त्यभ्युपगमात् । प्रतिबन्धश्च किं प्रत्यक्षेणेन्द्रियगतगुणैः सह गृह्यते लिङ्गस्य? आहोस्विदनुमानेन? इति वक्तव्यम् । तत्र यदि प्रत्यक्षमिन्द्रियाधितगुणैः सह लिङ्गस्य सम्बन्धग्राहकमभ्युपगम्यते, तदयुक्तम् : इन्द्रियगुणानामप्रत्यक्षत्वे तद्गतसम्बन्धस्याप्यप्रत्यक्षत्वात् "द्विष्टसम्बन्धसंवित्तिकरूपप्रवेदनात्" । 1 इति वचनात् । अथानुमानेन प्रकृतसम्बन्धः प्रतीयते, तदप्ययुक्तम्: यतस्तदप्यनुमानं किं गृहीतसम्बन्धलिङ्गप्रभवम् ? उतागृहीतसम्बन्धलिङ्गसमुत्थम् ?। तत्र यद्यगृहीतसम्बन्धलिङ्गप्रभवम्, तदा किं प्रमाणम् ? उताप्रमाणम् ? । यद्यप्रमाणम् , नातः सम्बन्धप्रतीतिः । अथ प्रमाणम्, तदपि न प्रत्यक्षम्-अनुमानस्य बाह्यार्थविषयत्वेन प्रत्यक्षत्वानभ्युपगमात्, प्रत्यक्षपक्षोक्तदोषाच्च-किंतु ३० अनुमानम्, तच्चानवगतसम्बन्धं न प्रवर्तत इत्यादि वक्तव्यम् । अथावगतसम्बन्धम्, तस्यापि सम्बन्धः किं तेनैवानुमानेन गृह्येत? उतान्येन। यदि तेनैव गृह्यत इत्यभ्युपगमः-सन युक्तः, इतरेतराश्रयदोषप्रसङ्गात् । तथाहि-गृहीतप्रतिबन्धं तत् स्वसाध्यप्रतिबन्धग्रहणाय प्रवर्तते, तत्प्रवृत्ती च स्वोत्पादकप्रतिबन्धग्रह इत्यन्योऽन्यसंश्रयो व्यक्तः। अथान्येनानुमानेन प्रतिबन्धग्रहाभ्युप गमः-सोऽपि न युक्तः, अनवस्थाप्रसङ्गात् । तथाहि-तदप्यनुमानमनुमानप्रतिबन्धग्राहकमनुमा३५ नान्तराद् गृहीतप्रतिबन्धमुदयमासादयति, तदप्यन्यतोऽनुमानाद् गृहीतप्रतिबन्धमित्यनवस्था । किंच, तदनुमानं स्वभावहेतुप्रभावितम्? कार्यहेतुसमुत्थम्? अनुपलब्धिलिङ्गप्रभवं वा प्रतिबन्ध १ उच्यते । अत्र-गु० । २ “यस्य भावो यद्भाव इति व्युत्पत्त्या 'यद्भाव'पदेन यदुत्पत्तिर्लभ्यते, तथाच यदुत्पत्तिं प्रति ये अनपेक्षाः-इतरनैरपेक्ष्येण समर्थाः"-गु०भा०गतं टिप्पणम् । ३ "गुणादि"-आ० टि.। ४ “यत्र यत्र दोषादि तत्र तत्र अप्रामाण्यम्"-आ. टि. । ५ "ये अपेक्षितकारणान्तरोदयाः"-आ. टि.। ६ अस्मिन् पृष्ठे ९ पटौ । ७ "द्वयोः खरूपग्रहणे सति संबन्धवेदनम्" इत्युत्तरार्धम्-इति भा०टि०। ८ गृह्यते-भां। ९ “समुत्पादितम्"-भां. टि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy