SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यवादः। तस्माद्यत एव गुणविकलसामग्रीलक्षणात् कारणाद् विज्ञानमुत्पद्यते तत एव प्रामाण्यमपीति 'गुणवच्चक्षुरादिभावाभावानुविधायित्वात्' इत्यसिद्धो हेतुः। अत एवोत्पत्ती 'सामग्र्यन्तरानपेक्षत्वं' नासिद्धम्. अनपेक्षत्वविरुद्धस्य सापेक्षत्वस्य विपक्षे सद्भावात् ततो व्यावर्त्तमानो हेतुः स्वसाध्येन व्याप्यते इति विरुद्धा-ऽनैकान्तिकत्वयोरप्यभाव इति भवत्यतो हेतोः स्वसाध्यसिद्धिः। ५ अर्थतथात्वपरिच्छेदरूपा च शक्तिः प्रामाण्यम् । शक्तयश्च सर्वभावानां स्वत एव भवन्ति, नोत्पादककारणकलापाधीनाः । तदुक्तम् "स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्य्यते" ॥ [ श्लो० वा० सू० २, श्लो० ४७ ] एतच्च नैव सत्कार्यदर्शनसमाश्रयणादमिधीयते, किंतु यः कार्यधर्मः कारणकलापेऽस्ति स एव १० कारणकलापादुपजायमाने कार्य तत एवोदयमासादयति; यथा मृत्पिण्डे विद्यमाना रूपादयो घटेऽपि मृत्पिण्डादुपजायमाने मृत्पिण्डरूपादिद्वारेणोपजायन्ते । ये पुनः कार्यधर्माः कारणेष्वविद्यमाना न ते कारणेभ्यः कार्ये उदयमासादयति तत एव प्रादुर्भवन्ति, किंतु स्वतः; यथा घटस्यैवोदकाहरणशक्तिः, तथा विज्ञानेऽप्यर्थतथात्वपरिच्छेदशक्तिः चक्षुरादिषु विज्ञानकारणेष्वविद्यमाना न तत एव भवति, किंतु स्वत एव प्रादुर्भवति । किंचोक्तम् "आत्मलाभे हि भावानां कारणापेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु" ॥ [ श्लो० वा० सू० २, श्लो० ४८] तथाहि- "मंत्पिण्ड-दण्ड-चक्रादि घटो जन्मन्यपेक्षते। उदकाहरणे तस्य तदपेक्षा न विद्यते"॥ [ ] इति।। अथ चक्षरादेर्विज्ञानकारणादुपजायमानत्वात् प्रामाण्यं परत उपजायत इति यद्यभिधीयते. २० तदभ्युपगम्यत एव । प्रेरणाबुद्धेरपि अपौरुषेयविधिवाक्यप्रभवायाः प्रामाण्योत्पत्त्यभ्युपगमात् । तथाऽनुमानबुद्धिरपि गृहीताविनाभावानन्यापेक्षलिङ्गादुपजायमाना तत एव गृहीतप्रामाण्या उपजायत इति 'सर्वत्र विज्ञानकारणकलापव्यतिरिक्तकारणान्तरानपेक्षमुपजायमानं प्रामाण्यं स्वत उत्पद्यते' इति नोत्पत्तौ परतः प्रामाण्यम् ॥ [पूर्वपक्षः-(२) कार्ये प्रा माण्यस्य स्वतस्त्वसाधनम् ] नापि 'स्वकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्त्तमानं प्रमाणं स्वोत्पादककारणव्यतिरिक्तनिमित्तापेक्षं प्रवर्त्तते' इत्यभिधातुं शक्यम् : यतस्तन्निमित्तान्तरमपेक्ष्य स्वकार्ये प्रवर्त्तमानं किं संवादप्रत्ययमपेक्ष्य प्रवर्त्तते ? आहोस्वित् स्वोत्पादककारणगुणानपेक्ष्य प्रवर्तते? इति विकल्पद्वयम् । तत्र यद्याद्यो विकल्पोऽभ्युपगम्यते, तदा चक्रकलक्षणं दूषणमापतति । तथाहि-प्रमाणस्य स्वकार्ये प्रवृ तौ सत्यामर्थक्रियार्थिनां प्रवृत्तिः, प्रवृत्तौ चार्थक्रियाज्ञानोत्पत्तिलक्षणः संवादः, तं च संवादम३० पेक्ष्य प्रमाणं स्वकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्तत इति यावत् प्रमाणस्य स्वकार्ये न प्रवृत्तिर्न तावदर्थक्रियार्थिनां प्रवृत्तिः, तामन्तरेण नार्थक्रियाज्ञानसंवादः, तत्सद्भावं विना प्रमाणस्य तदपेक्षस्य॑ स्वकार्ये न प्रवृत्तिरिति स्पष्टं चक्रकलक्षणं दूषणमिति । न च भाविनं संवादप्रत्ययमपेक्ष्य प्रमाणं स्वकार्ये प्रवर्तत इति शक्यमभिधातुम्, भाविनोऽसत्त्वेन विज्ञानस्य स्वकार्ये प्रवर्त्तमानस्य सहकारित्वासंभवात् । अथ द्वितीयः, तत्रापि किं गृहीताः स्वोत्पादककारणगुणाः सन्तः प्रमाणस्य ३६. स्वकार्ये प्रवर्त्तमानस्य सहकारित्वं प्रपद्यन्ते? आहोस्विदगृहीताः? इत्यत्रापि विकल्पद्वयम् । तत्र यद्यगृहीता इति पक्षः, स न युक्तः; अगृहीतानां सत्त्वस्यैवासिद्धेः सहकारित्वं दूरोत्सारितमेव । अथ द्वितीयः, सोऽपि न युक्तःः अनवस्थाप्रसङ्गात् । तथाहि-गृहीतस्वकारणगुणापेक्षं प्रमाणं स्वकार्ये प्रवर्तते, स्वकारणगुणज्ञानमपि स्वकारणगुणज्ञानापेक्षं प्रमाणकारणगुणपरिच्छेदलक्षणे स्वकार्ये प्रव १ ग्रन्थानम्-श्लो० १०० । २ अयं हेतुः पृ. २, पं० ९। ३ एतच 'सामग्र्यन्तरानपेक्षत्वम्' पृ० २,५०४ । ४ “सांख्य" (दर्शनसमाश्रयणात् ) गु.टि.। ५ वा. विना सर्वत्र-मासादयन्ति न तत एव-इत्यादिपाठः। ६ “सर्वे हि भावाः स्वात्मलाभायैव खकारणमपेक्षन्ते, घटो हि मृत्पिण्डादिकं खजन्मनि एव अपेक्षते, नोदकाहरणेऽपि3 तथा शानमपि खोत्पत्तौ गुणवत्, इतरद वा कारणमपेक्षतां नाम, खकार्ये तु विषयनिश्चये अनपेक्षमेव" इति-श्लोकवा. टीकायाम्-(को० वा० सू०२, श्लो०४८)। ७ इत्यमिधानं शक्यम्-भां०। ८ तदपेक्षस्वकार्ये-गु०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy