SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मुक्तिस्वरूपवादः । १६१ समस्तशेयविषयत्वेनानियतविषयम् , यथाऽव्यापृतचक्षुरादिकरणग्रामस्य, 'सदसती तत्त्वम्' इति झानं सकलाक्षेपेण व्याप्तिप्रसाधकं वा । न चात्राप्यात्माऽन्तःकरणसंयोगस्य शरीराद्यपेक्षाकारणसहकृतस्य व्यापार इति वक्तुं युक्तम् , अन्तःकरणस्याणुपरिमाणद्रव्यरूपस्य प्रमाणबाधितत्वेनानभ्युपगमार्हत्वात् संयोगस्य च निषिद्धत्वात् । शरीरादीनां तु ज्ञानोत्पत्तिवेलायां सन्निधानेऽपि तहुण-दोषाऽन्वय-व्यतिरेकानुविधानस्य तज्ज्ञानेऽनुपलम्भान्नापेक्षाकारणत्वं कल्पयितुं युक्तम् , तथापि ५ तत्कल्पनेऽतिप्रसङ्गः । देश-कालादिकं च विशुद्धज्ञानक्षणस्यान्वयिनः ज्ञानान्तरोत्पादने प्रवर्तमानस्यापेक्षाकारणं न प्रतिषिध्यते मुक्त्यवस्थायामपि, शरीरादिकं तु तस्यामवस्थायां कारणाभावादेवानुत्पन्नं नापेक्षाकारणं भवितुमर्हति । यदि च सेन्द्रियशरीरापेक्षाकारणमन्तरेण ज्ञानादेरुत्पत्तिर्नाभ्युपेयेत तदा तथाभूतापेक्षाकारणजन्यज्ञानस्य चक्षुरादिज्ञानस्येव प्रतिनियतविषयत्वं स्यादिति 'सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः, प्रमेयत्वात् , पञ्चाङ्गुलिवत्' इत्यतोऽनुमानादनुमीयमानं सर्वज्ञ-१० शानमपि प्रतिनियतविषयत्वान्न सर्वविषयं स्यात् । यदि पुनस्तज्ज्ञानं सकलपदार्थविषयत्वात् तजन्यं "अर्थवत् प्रमाणम्" [ वात्स्या० भा० पृ० १, पं० २] इति वचनात् सेन्द्रियशरीरापेक्षाकारणाऽजन्यं वाभ्युपगम्यते अन्यथा सर्व विषयत्वं न स्यादिति तर्हि मुक्त्यवस्थायामपि देहाद्यपेक्षाकारणाऽजन्यं किं नाभ्युपगम्यते ? अंसाधितं चानिन्द्रियजं सकलपदार्थविषयमध्यक्षं ज्ञानं सर्वसाधनप्रस्तावे इति न सेन्द्रियशरीरापेक्षाकारणजन्यत्वाभावे तज्ज्ञानस्य प्रतिनियतविषयत्वाभावादभाव १५ एवाभ्युपगन्तुं युक्तः। अपि च, सकलपदार्थप्रकाशकत्वं ज्ञानस्य स्वभावः, स च सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपावरणेनाच्छाद्यतेऽपवरकावस्थितप्रकाश्यपदार्थप्रकाशकस्वभावप्रदीप इव तदावारकशरावादिना, तदपगमे तु प्रदीपस्येव स्वप्रकाश्यप्रकाशकत्वं ज्ञानस्यायनसिद्धमिति कथमावरणभूतसेन्द्रियदेहाद्यभावे तद्वस्थायां ज्ञानस्याप्यभावः प्रेर्येत ? अन्यथा प्रदीपावारकशरावाद्यभावे प्रदीपस्याप्यभावः प्रेरणीयः२० स्यात् । न च शरावादेरावारकस्य प्रदीपं प्रत्यजनकत्वमाशङ्कनीयम्, तथाभूतप्रदीपपरिणतिजनकत्वाच्छरावादेः, अन्यथा तं प्रत्यावारकत्वमेव तस्य न स्यात्, परिणामस्य च प्रसाधयिष्यमाणत्वात् । उपलभ्यते च संसारावस्थायामपि वासीचन्दनकल्पस्य मुमुक्षोः सर्वत्र समवृत्तेर्विशिष्टध्यानादिव्यवस्थितस्य सेन्द्रियशरीरव्यापाराजन्यः परमाहादरूपोऽनुभवः, तस्यैव भावनावशादुत्तरोत्तरामवस्थामासादयतः परमकाष्ठागतिरपि सम्भाव्यत एवेत्येतदपि सर्वशसाधनप्रस्तावे प्रतिपादितमिति न पुनरुच्यते। परमार्थतस्त्वानन्दरूपताऽऽत्मनः स्वरूपभूता तद्विबन्धककर्मक्षयात् तस्यामवस्थायामुत्पद्यते । एकान्तनित्यस्य त्वविचलितरूपस्यात्मनो वैषयिकसुख-दुःखोपभोगोऽप्यनुपपन्नः, एकस्वभावस्य तत्स्वभावापरित्यागे भिन्नसुख-दुःखसंवेदनोत्पादेऽप्याकाशस्येव तदनुभवाभावात् । तत्समवेत-तदुत्पत्यादिकं तु प्रतिक्षिप्तत्वान्न वक्तव्यम्, 'ज्ञानं चोत्तरज्ञानोत्पादनस्वभावम्, यच्च यत्स्वभावम् नः तत् तदुत्पादनेऽन्यापेक्षम्, यथान्त्या बीजादिकारणसामग्री अङ्कुरोत्पादने, तत्स्वभावश्च पूर्वो शानक्षण उत्तरज्ञानक्षणोत्पादने' इति स्वभावहेतुः; अन्यथाऽसौ तत्स्वभाव एव न स्यात् । न च संसारावस्थाज्ञानान्त्यक्षणस्योत्तरज्ञानजननस्वभावत्वमसिद्धम्, तथाभ्युपगमे सत्तासंबन्धादेः सत्त्वस्य निषिद्धत्वात् तदजनकत्वेन तस्यानर्थक्रियाकारित्वात् अवस्तुत्वापत्तेस्तजनकस्याप्यवस्तुत्वं ततस्तजनकस्येत्येवमशेषचित्तसन्तानस्यावस्तुत्वप्रसङ्गः। अथ स्वसन्तानवर्त्तिचित्तक्षणस्याजनकत्वेऽपि सन्तानान्तरवतियोगिज्ञानस्य जननान्नाशेषचित्तक्षणावस्तुत्वप्रसक्तिः, नन्वेवं रसादेरेककालस्य रूपादेरव्यभिचार्यनुमानं साधवचित्तसन्ताननिरोधलक्षणमुक्तिवादिनो बौद्धस्य न स्यात्, रूपादेरन्त्यक्षणवद् विजातीयकार्यजनकत्वेऽपि सजातीयकार्यानारम्भसंभवात् । एकसामग्र्यधीनत्वेन रूप-रसयोर्नियमेन कार्यद्वयारम्भकत्वेऽन्यत्रापि कार्यद्वयारम्भकत्वं किं न स्यात् 'योगिज्ञानान्त्यक्षणयोरपि समानकारणसामग्रीजन्यत्वात् ? कथ-४० मेकत्रानुपयोगिनश्चान्यत्रोपयोगश्चरमक्षणस्य? उपयोगे वो ज्ञानान्तरप्रत्यक्षवादिनोऽपि नैयायि १ पृ० ११३ पं० ४२। २ पृ. ८५ पं० १४ । ३ चाऽभ्यु-आ०। ४ पृ० ६५ पं. ३३-पृ० ६७ पं. ४। ५ परिमाणस्य मां०। ६ पृ. ६१५० २५। ७ पृ. १३५ पं० ९। ८-दखभा-आ०, वि०। ९ पृ. ११० पं०९। १० योगिनां ज्ञाना-हा०, कां०, गु०। ११ वा ज्ञानज्ञानान्तर-मां०, भां० । स० त०२१
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy