SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६२ प्रथमे काण्डेकस्य स्वविषयशानजननासमर्थस्यापि ज्ञानस्यार्थज्ञानजननसामर्थ्य किं न स्यात् ? तथा च नार्थचिन्तनमुत्सीदेत् । अथ स्वसन्तानवर्तिकार्यजननसामर्थ्यवद् भिन्नसन्तानवर्तिकार्यजननसामर्थ्यमपि नेष्यते तर्हि सर्वथार्थक्रियासामर्थ्यरहितत्वेनान्त्यक्षणस्यावस्तुत्वप्रसक्तिः । तथाविधस्यापि वस्तुत्वे सर्वथाऽर्थक्रियारहितस्य अक्षणिकस्यापि वस्तुत्वप्रसक्तिः। तथा च सत्त्वादयः क्षणिकत्वं न ५ साधयेयुः अनैकान्तिकत्वात् । तस्मात् साश्रवचित्तसन्ताननिरोधलक्षणाऽपि मुक्तिर्विशेषगुणरहितात्मस्वरूपेवाऽनुपपन्ना। निराश्रवचित्तसन्तत्युत्पत्तिलक्षणा त्वभ्युपगम्यत एव, केवलं सा चित्तसंततिः सान्वया युक्ता; बद्धो हि मुच्यते नाबद्धः। न च निरन्वये चित्तसन्ताने बद्धस्य मुक्तिः संभवति, तत्र ह्यन्यो बद्धोऽन्यश्च मुच्यते, सन्तानक्याद् बद्धस्यैव मुक्तिरत्रापीति चेत्, यदि सन्तानार्थः पर१०मार्थसंस्तदाऽऽत्मैव सन्तानशब्देनोक्तः स्यात्, अथ संवृतिसन् तदैकस्य परमार्थसतोऽसत्त्वादन्यो बद्धोऽन्यश्च मुच्यत इति बद्धस्य मुक्त्यर्थं न प्रवृत्तिः स्यात् । अथात्यन्तनानात्वेऽपि दृढरूपतया क्षणानामेकत्वाध्यवसायात् 'बद्धमात्मानं मोचयिष्यामि' इत्यभिसन्धानवतः प्रवृत्तेर्नायं दोषः तर्हि न नैरात्म्यदर्शनमिति कुतस्तन्निबन्धना मुक्तिः ? अथास्ति नैरात्म्यदर्शनं शास्त्रसंस्कारजम्, न तयेकत्वाध्यवसायोऽस्खलद्रूप इति कुतो वद्धस्य मुक्त्यर्थं प्रवृत्तिः स्यात् ? तथा च १५"मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [ ] इत्येतत् प्लवते । तस्मादसति विज्ञानक्षणान्वयिनि जीवे बन्ध-मोक्षयोस्तदर्थ वा प्रवृत्तेरनुपपत्तेः सान्वया चित्तसन्ततिरभ्युपगन्तव्या । न च 'यस्मिन् व्यावर्त्तमाने यदनुवर्त्तते तत् तत एकान्ततो भिन्नम् , यथा घटे व्यावतमानेऽनुवर्तमानः पटः, व्यावर्त्तमाने च ज्ञानक्षणेऽनुवर्तते चेजीवस्ततस्ततो भिन्न एव'-अन्यथा २० विरुद्धधर्माध्यासेऽपि यद्येकान्ततो भेदो न स्यादन्यस्य भेदलक्षणस्याभावादभिन्नं सकलं जगत् स्यात्-इत्यतोऽनुमानात् व्यावृत्ताऽनुवृत्तयोर्भेदसिद्धेर्न सान्वया निरास्रवचित्तसन्ततिर्मुक्तिरिति वक्तुं युक्तम् , असति तत्र पूर्वापरज्ञानक्षणव्यापके आत्मनि खसंविदितैकत्वप्रत्ययस्य प्रत्यक्षस्यानुपपत्तेः। अथात्मन्यसत्यप्यध्यारोपितैक(-कत्व-)विषयःप्रत्ययः प्रादुर्भविष्यति, अयुक्तमेतत् ; स्वात्मन्य नुमानात् क्षणिकत्वं निश्चिन्वतः समारोपितैकत्वविषयस्य विकल्पस्य निवृत्तिप्रसङ्गात् निश्चयाऽऽरोप२५ मनसोर्विरोधात्, अविरोधे वा सविकल्पकप्रत्यक्षवादिनोऽपि सर्वात्मना प्रत्यक्षेणार्थनिश्चयेऽपि समारोपविच्छेदाय प्रवर्त्तमानं न प्रमाणान्तरमनर्थकं स्यात् । निवर्त्तत एवैकत्वविषयो विकल्पोऽनुमानात् क्षणिकत्वं निश्चिन्वत इति चेत्, तर्हि सहजस्याऽऽभिसंस्कारिकस्य च सत्त्वदर्शनस्याभावात् तदैव तन्मूलरागादिनिवृत्तेर्मुक्तिः स्यात् ।। न चायमेकत्व विषयः प्रत्ययः प्रतिसङ्ख्यानेन निवर्तयितुमशक्यत्वान्मानसो विकल्पः । ३० तथाहि-अनुमानबलात् क्षणिकत्वं विकल्पयतोऽपि नैकत्वप्रत्ययो निवर्त्तते, शक्यन्ते तु प्रतिसङ्ख्यानेन निवारयितुं कल्पनाः न पुनः प्रत्यक्षवुद्धयः । तस्माद् यथा अश्वं विकल्पयतोऽपि गोदर्शनान्न गोप्रत्ययो विकल्पस्तथा क्षणिकत्वं विकल्पयतोऽप्येकत्वदर्शनान्नैकत्वप्रत्ययो विकल्पः । नाप्ययं भ्रान्तः, प्रत्यक्षस्याशेषस्यापि भ्रान्तत्वप्रसङ्गात् । वाह्याभ्यन्तरेषु भावेष्वेकत्वग्राहकत्वेनैवाशेषप्रत्यक्षेणानुत्पत्ति(-प्रत्यक्षाणामुत्पत्ति-)प्रतीतेः, तथा च प्रत्यक्षस्याभ्रान्तत्वविशेषणमसम्भव्येव स्यात् । ३५ तस्मादेकत्वग्राहिणः स्वसंवेदनप्रत्यक्षस्याऽभ्रान्तस्य कथञ्चिदेकत्वमन्तरेणानुपपत्तेर्नानुगतरूपाभावः। नाप्यनुगत-व्यावृत्तरूपयोरैकान्तिको भेदः, तद्भेदप्रतिपादकस्यानुमानस्य तदभेदग्राहकप्रत्यक्षप्रत्ययबाधितत्वात् । न च प्रतीयमानस्य रूपस्य विरोधः, अन्यथा ग्राह्य-ग्राहक-संवित्तिलक्षणविरुद्धरूपत्रयाध्यासितस्य ज्ञानस्याप्येकत्वविरोधः स्यात्। तथा, एकनीलक्षणस्याप्येकदा स्वपरकार्यजनकत्वाजनकत्वविरुद्धधर्मद्वयाध्यासितस्यैकत्वविरोधप्रसक्तिः । नैयायिकेनापि प्रतीयमाने वस्तुनि न ४० विरोधोद्भावनं विधेयम्; अन्यथा 'स्थाणुरयं पुरुषो वा' इत्याकारद्वयसमुल्लेखिसंशयप्रत्ययस्याप्येकत्वं विरुद्धमासज्येत। १-राश्रव-मां०, भा०। २-मारोपिवि-आ०, हा०। ३ अत्र स्थले प्रमेय. मा० ईदृशः पाठः "बाह्याध्यात्मिकभावेषु एकत्वग्राहकरवेनैव अशेषप्रत्यक्षाणां प्रवृत्तिप्रतीतेः" पृ०९२ प्र०, पं० ८।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy