SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - रुयाद्युपभोगासम्भवात्, सम्भवेऽपि चावश्यंभावी ऋद्धिमतो भवदभिप्रायेण योगिनोऽपि प्रचुरतर धर्माधर्मसंभवोऽतिभोगिन इव नृपत्यादेः, वैद्योपदेशप्रवर्तमानातुरदृष्टांन्तोऽप्यसङ्गतः, तस्यापि निरुग्भावाभिलाषेण प्रवर्त्तमानस्यौषधाद्याचरणे वीतरागत्वासिद्धेः । न च मुमुक्षोरपि मुक्तिसुखाभिलाषेण प्रवर्तमानस्य सरागत्वम्, सम्यग्ज्ञानप्रतिबन्धकराग विगमस्य सर्वज्ञत्वान्यथानुपपत्या ५ प्राक् प्रसाधितत्वात् । भवोपग्राहि कर्मनिमित्तस्य तु वागू- बुद्धि-शरीराऽऽरम्भप्रवृत्तिरूपस्य सातजनकस्य शैलेश्यवस्थायां मुमुक्षोरभावात् प्रवृत्तिकारणत्वेनाभ्युपगम्यमानस्य सुखाभिलापस्याप्यसिद्धेन मुमुक्षो रागित्वम् । प्रसिद्धश्च भवतां प्रवृत्त्यभावो भाविधर्माधर्मप्रतिबन्धकः । श्च भावधर्माधर्माभ्यां विरुद्धो हेतुः स एव सञ्चितत्क्षयेऽपि युक्त इति प्रतिपादितम् । अत एव सम्यग्ज्ञान-दर्शन- चारित्रात्मक एव हेतुर्भावि भूतकर्मसम्बन्धप्रतिघातकत्वाद् १० मुक्तिप्रात्यवन्ध्यकारणं नान्य इति । तेन यदुक्तम् 'तत्त्वज्ञानिनां कर्म विनाशस्तत्वज्ञानात्' इति, तद्युक्तमेव । यतु 'इतरेषामुपभोगात्' इति, तदयुक्तम्; उपभोगात् तत्क्षयानुपपत्तेः प्रतिपादितत्वात् । यत्तु 'नित्य नैमित्तिकानुष्ठानं केवलज्ञानोत्पत्तेः प्राक् काम्यनिषिद्धानुष्ठान परिहारेण ज्ञानावरणादिदुरितक्षयनिमित्तत्वेन केवलज्ञानप्राप्तिहेतुत्वेन च प्रतिपादितम्' तदिष्टमेवास्माकम् । केवलज्ञानलाभोत्तरकालं तु शैलेश्यवस्थायामशेष कर्म निर्जरणरूपायां सर्वक्रियाप्रतिषेध एवाभ्यु१५ पगम्यत इति न तन्निमित्तो धर्माधर्मफलप्रादुर्भावः, प्रवृत्तिनिवृत्तेरात्यन्तिक्यास्तत्क्षय हेतुत्वैसिद्धेः । चकम् 'विपर्ययज्ञानध्वंसादिक्रमेण विशेषगुणोच्छेद विशिष्टात्मस्वरूपमुक्त्यभ्युपगमे न तत्त्वज्ञान कार्यत्वादनित्यत्वं वाच्यम्' इत्यादि, तदप्ययुक्तम्; विशेषगुणोच्छेदविशिष्टात्मनो मुक्तिरूपतया प्रतिषिद्धत्वात्, बुद्ध्यादेर्विशेषगुणत्वस्यात्यन्तिकतत्क्षयस्य च प्रमाणबाधितत्वात् । गुणव्यतिरिक्तस्य च गुणिन आत्मलक्षणस्यैकान्तनित्यस्य निषेत्स्यमानत्वात् तस्य बुद्ध्यादिविशेष२० गुणतादात्म्याभावोऽसिद्धः । १६० यच्चे 'मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न कृतबुद्धयस्तत्र प्रवर्त्तन्त इत्यानन्दरूपात्मस्वरूप एव मोक्षोऽभ्युपगन्तव्यः' इति एतत् सत्यमेव । यचे 'यथा तस्य चित्स्वभावता नित्या तथा परमानन्दस्वभावताऽपि' इत्यादि, तदयुक्तम् ; चित्स्वभावतायाः अप्येकान्त नित्यतानभ्युपगमात्; आत्मस्वरूपता तु चिद्रूपताया आनन्दरूपतायाश्च कथंचिदभ्युपगम्यत एव । यच्च 'अनन्यत्वेन २५ श्रुतौ श्रवणम् 'विज्ञानमानन्दं ब्रह्म' इति, तदपि नास्मदभ्युपगमबाधकम्, समस्त ज्ञेयव्यापिनो ज्ञानस्यावैषयिकस्य चानन्दस्य स्वसंविदितस्य मुक्त्यवस्थायां सकलकर्मरहितात्मब्रह्मरूपाभेदेन कथंचिदभीष्टत्वात् । यपि 'यदाऽविद्यानिवृत्तिः तदा स्वरूपप्रतिपत्तिः सैव मोक्षः' इति, तदपि युक्तमेव, अष्टविधपारमार्थिककर्मप्रवाहरूपानाद्यविद्यात्यन्तिकनिवृत्तेः स्वरूपप्रतिपत्तिलक्षणमोक्षावाते रभीष्टत्वात् । ३० अत एव 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते' इत्येतदपि नास्मत्पक्षक्षतिमुद्वहति, अभिव्यक्तेः स्वसंविदितानन्दस्वरूपतया तदवस्थायामात्मन उत्पत्तेरभ्युपगमात् । यच्च यथात्मनो महत्त्वं निजो गुणः' इत्यादि, तदसारम् ; नित्यसुख - महत्त्वादेरात्माऽव्यतिरिक्तत्वेन तद्धर्मत्वेन वा प्रमाणबाधितत्वादनभ्युपगमार्हत्वात् । अत एव 'संसारावस्थायामपि नित्यसुखस्य तत्संवेदनस्य च सद्भावात् संसार- मुक्त्यवस्थयोरविशेषः' इत्यादि यदूषणमत्र पक्षे उपन्यस्तं तद्नभ्युपगमादेव निरस्तम् । ३५ यच्चानित्यत्वपक्षेऽपि 'तस्यामवस्थायां सुखोपपत्तावपेक्षाकारणं वक्तव्यम्, न ह्यपेक्षाकारणशून्यः आत्ममनः संयोगः कारणत्वेनाभ्युपेयते' इत्यादि, तदप्यसङ्गतम् ज्ञान- सुखादेश्चैतन्योपादेयत्वेन तद्धर्मानुवृत्तितः प्राक् प्रतिपादितत्वात् सेन्द्रियशरीरादेस्तु तदुत्पत्तावपेक्षाकारणत्वेनाभ्युपगम्यमानस्याव्यापकत्वात् । तथाहि - सेन्द्रियशरीराद्यपेक्षाकारणव्यापाररहितं विज्ञानमुपलभ्यत एव १ अत्र प्रमेय० मा० " गृद्धिमतो भवदभि” - इत्येव पाठः, स एव च सम्यक् पृ० ९१ द्वि०, पं० २ । २ पृ० १५० पं० ३१ । ३ पृ० ६१ पं० २ ४- तक्षये मां० । ५ पृ० १५९ पं० २४ । ६ पृ० १५० पं० ३३ । ७ पृ० १५० पं० ३३ । ८ पृ० १५९ पं० ३४ । ९० १५० पं० ३९ । १० - त्वसिद्ध ः वि० । ११ पृ० १५१ पं० ६। १२ पृ० १५६ पं० ३ । १३ पृ० १५१ पं० ९ । १४ पृ० १५१ पं० १० । १५ पृ० १५१ पं० ११ । १६० १५१ पं० १५ । १७ पृ० १५१ पं० १७ । १८ पृ० १५१ पं० १९ । १९ पृ० १५१ पं० २८ । २० सुखोत्पत्ता- मां० । २१ पृ० १५२ पं० ३ । २२ पृ० १५९ पं० १५ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy