SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः। १४७ प्रासादिवत्' । कार्यदेशे च सन्निहितं कारणं तजनने व्याप्रियतेऽन्यथाऽतिप्रसङ्गादिति तदङ्गना. प्रादुर्भावदेशे तत्कारणतगुणसिद्धिः। तथा, तदन्तराले च प्रतीयन्ते । तथाहि-अग्नेरूज़ज्वलनम्, वायोस्तिर्यक् पवनं तद्गुणपूर्वकम्, कार्यत्वे सति तदुपकारकत्वात्, वस्त्रादिवत् । यत्र च तहुणास्तत्र तहुण्यप्यनुमीयत इति 'स्वदेह एव देवदत्तात्मा' इति प्रतिज्ञा अनुमानबाधिता । ततोऽनुमानबाधितकर्म निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टो हेतुः" [ ] ननु केऽत्र देवदत्तात्मगुणा ये तदङ्गनाङ्गे तदन्तराले च प्रतीयन्ते ? यदि ज्ञान-दर्शन-सुखवीर्यस्वभावाः-"सहवर्तिनो गुणाः" [ ] इति वचनात्-इति पक्षः, स न युक्तः, शान-दर्शन-सुखानि संवेदनरूपाणि न तदङ्गनाङ्गजन्मनि व्याप्रियमाणानि प्रतीयन्ते; नापि सत्तामात्रेण तेद्देशे प्रतीतिगोचराणि । वीर्य तु शक्तिः क्रियानुमेया; साऽपि तदेह एवानुमीयते, तत्रैव तल्लिङ्गभूतपरिस्पन्ददर्शनात्। तस्याश्च तदङ्गनादेहनिष्पत्तौ देवदत्तस्य भार्या दुहिता स्यात् । १० ततस्तज्ज्ञानादेस्तदेह एव तत्कार्यजननविमुखस्य प्रतीतेः प्रत्यक्षतः तद्वाधितकर्म निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टः 'कार्यत्वे सति तदुपकारकत्वात्' इति हेतुः। अथ धर्माऽधर्मों तदनादिकार्यनिमित्तं तद्वणः, तदयक्तमः न धर्माऽधौ तदात्मनो गुणौ, अचेतनत्वात्, शब्दादिवत्। न सुखादिना व्यभिचारः, तत्र हेतोरवर्तनात्-तद्विरुद्धन स्वसं. वेदनलक्षणचैतन्येन तस्य व्याप्तत्वात् अभिमतपदार्थसम्बन्धसमय एव स्वसंवेदनरूपाहादस्वभा-१५ वस्य तदात्मनोऽनुभवात्, अन्यथा सुखादेः स्वयमननुभवात् अनवस्थादोषप्रसङ्गात् अन्यशानेनाप्यनुभवे सुखस्य परलोकप्रख्यताप्रसक्तिः । प्रसाधितं चैतत् प्राक् ।। न चासिद्धता अचेतनत्वात्' इति हेतोः । तथाहि-अचेतनौ तौ, अस्वसंविदितत्वात्, कुम्भवत् । न बुद्ध्याऽस्य व्यभिचारः, अस्याः स्वसंवेदनसाधनात्-'स्वग्रहणात्मिका बुद्धिः, अर्थग्रहणात्मकत्वात् , यत् स्वग्रहणात्मकं न भवति न तद् अर्थग्रहणात्मकम्, यथा घटः' इति २० व्यतिरेकी हेतुः। न च धर्माऽधर्मयोर्ज्ञानरूपत्वाद् बौद्धदृष्ट्या ज्ञानस्य च स्वग्रहणात्मकत्वादसिद्धो हेतुरिति वक्तव्यम् , तयोः स्वरूपग्रहणात्मकत्वे सुखादाविव विवादाभावप्रसक्तेः । अस्ति चासो अनुमानो. पन्यासान्यथानुपपत्तेस्तत्र । न च लौकिक-परीक्षकयोः 'प्रत्यक्षं कर्म' इति व्यवहार सिद्धम् । न चाविकल्पबोधविषयत्वात् स्वग्रहणात्मकत्वेऽपि तयोर्विवादः क्षणिकत्वादिवत् , तथाऽनिश्चयात् २५ तद्विषयेऽतिप्रसङ्गात् । तथाहि-अविकल्पकाध्यक्षविषयं जगत् जन्तुमात्रस्यः तथाऽनिश्चयस्तु क्षणिकत्ववत् निर्विकल्पकाध्यक्षविषयत्वात् । न च मूषिकालर्क विषविकारवत् तदनन्तरं तत्फलादर्शनान्न तद्दर्शनव्यवहार इति, स्वसत्तासमये स्वकार्यजननसामर्थ्य तस्य तदैव तत्कार्यमिति तदनन्तरं तदृष्टिप्रसक्तः अन्यदा तु स एव नास्तीति कुतस्ततस्तस्य भावः ? . अथ तयोरचेतनत्वेऽपि तदात्मगुणत्वे को विरोधः ? अचेतनस्य चेतनात्मगुणत्वमेव ।३० चेतनश्च तदात्मा स्वपरप्रकाशकत्वात् अन्यथा तदयोगात् कुड्यादिवत् । न च धर्माऽधर्मयोरभावादाश्रयासिद्धो हेतुः, अनुमानतस्तयोः सिद्धेः। तथाहि-चेतनस्य स्वपरशस्य तदात्मनो हीनमातृगर्भस्थानप्रवेशः तत्सम्बद्धान्यनिमित्तः, अनन्यनेयत्वे सति तत्प्रवेशात्, मत्तस्याशुचिस्थानप्रवेशवत् , योऽसावन्यः स द्रव्यविशेषो धर्मादिरिति। न च कस्यचित् पूर्वशरीरत्यागेन शरीरान्तरगमनाभावात् तत्प्रवेशोऽसिद्धः, अनुमानात् ३५ तत्सिद्धेः । तथाहि-तदहर्जातस्य स्तनादौ प्रवृत्तिस्तदभिलाषपूर्विका, तत्त्वात् , मध्यदशावत् । यथा च परलोकाऽऽगाम्यात्मा अनुमानात् सिद्धिमुपगच्छति तथा प्राक् प्रतिपादितम् । सुखसाधनजलादिदर्शनानन्तरोद्भूतस्मरणसहायेन्द्रियप्रभवप्रत्यभिज्ञानक्रमोपजायमानाभिलाषादेर्व्यवहारस्यैक १ पृ. १४६ पं० ३७। २ तद्देशप्र-वा०, वा०। ३-त्मगुणौ गु० । ४-रुद्धत्वेन वा०, बा• विना । ५-नुभावात् का०, गु०, वि०। ६-रप्रसिद्धिः । भां०, मां०। ७-लर्कविका-गु०, वा०, बा०, हा। ८-ननासामध्ये त-गु०, भा० । -ननसमये त-वा०, वा० । ९-नात्मागु-वि०। -नागु-भा०, गु० । १०-व अचेतनश्च वा०, बा०। ११-नन्याने-वा०, बा०। १२ पृ० ७४ ५ १९-पृ० ९२ पं० २० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy