SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४६ प्रथमे काण्डेटत्वात् सिद्धसाधनं च। सर्वात्मनाऽनित्यत्वस्य लोष्टादावप्यसिद्धत्वात् साध्यविकलता दृष्टान्तस्य। तन्न सर्वत्रोपलभ्यमानगुणत्वमात्मनः सिद्धम् । अपरे सर्वत्रोपलभ्यमानगुणत्वमात्मनोऽतोऽनुमानात् साधयन्ति-"देवदत्तोपकरणभूतानि मणि-मुक्ताफलादीनि द्वीपान्तरसंभूतानि देवदत्तगुणकृतानि, कार्यत्वे सति देवदत्तोपकारकत्वात्, ५शकटादिवत्। न च तद्देशेऽसन्निहिता एव तहुणास्तान् व्युत्पादयितुं समर्थाः, न हि पटदेशेऽ. सन्निधानवन्तस्तन्तु-तुरि-कुविन्दादयः पटमुत्पादयितुं क्षमाः। आत्मगुणानां च तद्देशसन्निधानं न तहणिसन्निधिमन्तरेण संभवि, अगुणत्वप्राप्तः, ततस्तस्यापि तद्देशत्वम्" [ ]असदेतत्। तत्कार्यत्वेऽपि तेषां न 'अवश्यतया कार्यदेशसन्निधिमद् निमित्तकारणम्' इति नियम उपलब्धिगोचरः, अन्य देशस्यापि ध्यानादेरेन्यस्थितविषाद्यपनयनकार्यकर्तृत्वस्योपलब्धिविषयत्वात् । तन्ना१० तोऽपि सर्वत्रोपलभ्यमानगुणत्वसिद्धिरित्यसिद्धो हेतुः।। एतेन 'विभुत्वाद् महानाकाशः तथा चात्मा' इति निरस्तम्, विभुत्वस्यात्मन्यसिद्धेः। तथाहिसर्घमृतैर्युगपत्संयोगो विभुत्वम् । न च सर्वमूर्तिमद्भिर्युगपत्संयोगस्तस्य सिद्धः । अथैकदेशवृत्तिविशेषगुणाधारत्वात् तस्य सर्वमूतैर्युगपत्संयोग आकाशस्येव सिद्धः, असदेतत्; एकदेशवृत्तिविशेषगुणाधिष्ठानत्वस्य साधनस्य सर्वमूर्तिमत्संयोगाधारत्वस्य च साध्यस्याकाशेऽप्यसिद्धरुभय१५विकलो दृष्टान्तः। न चात्मदृष्टान्तादाकाशे साध्य-साधनोभयधर्मसम्बन्धित्वं सिद्धमिति शक्यं वक्तुम् , इतरेतराश्रयदोषप्रसङ्गात्। यदपि 'विभुरात्मा, अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वात्, यद् यद् अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यं तत् तद् विभु, यथाऽऽकाशम्, तथा चात्मा, तस्माद् विभुः' इति, तदप्यसारम्; तन्नित्यत्वासिद्धेहेतोरसिद्धत्वात्, अणुपरिमाणानधिकरणत्वस्य च विशेषणस्यात्मनो २० द्रव्यत्वासिद्धरसिद्धिः, तदसिद्धिश्च इतरेतराश्रयदोषप्रसक्तेः । तथाहि-अणुपरिमाणान्यगुणस्य गुणत्वे सिद्धेऽनाधारस्य तस्यासम्भवादात्मनो गुणवत्त्वेन द्रव्यत्वसिद्धिः, तत्सिद्धौ च तदाश्रितत्वेनाणुपरिमाणान्यगुणस्य गुणत्वसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । न चाकाशस्याप्यणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वं विभुत्वं च सिद्धमिति साध्य-साधनविकलो दृष्टान्तः । न चात्मदृष्टान्तबलात् तस्य तदुभयधर्मयोगित्वं सिद्धमिति वक्तुं युक्तम्, अत्रापीतरेतराश्रयदोषप्रसङ्गस्य २५व्यक्तत्वात् । अपि च, अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वं च भविष्यत्यविभुत्वं च, विपक्षे हेतोर्बाधकप्रमाणासत्त्वेन ततो व्यावृत्त्यसिद्धेः सन्दिग्धानकान्तिकश्च हेतुः । न च विपक्षे हेतोरदर्शनं बाधकं प्रमाणम् , सर्वाऽऽत्मसम्बन्धिनस्तस्यासिद्धाऽनैकान्तिकत्वप्रतिपादनात् । अपि च, आत्मनः स्वदेहमात्रव्यापकत्वेन सुख-दुःखादिपर्यायाक्रान्तस्य स्वसंवेदनाध्यक्षसिद्धत्वात् तद्विभुत्वसाधकस्य हेतोरध्यक्षबाधितपक्षानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वम् । ३० अन्यस्य च 'अहम्' इत्यध्यक्षसिद्धस्य प्रमाणाविषयत्वेनाऽसत्त्वादाश्रयासिद्धो हेतुरिति। अनया दिशाऽन्येऽपि तद्विभुत्वसाधनायोपन्यस्यमाना हेतवो निराकर्त्तव्याः, अस्य निराकरणप्रकारस्य सर्वेषु तत्साधकहेतुषु समानत्वात् । तन्नात्मनः कुतश्चिद्विभुत्वसिद्धिः । अथापि स्यात् यथास्माकं तद्विभुत्वसाधकं प्रमाणं न सम्भवति तथा भवतामपि तदविभुत्व. साधकप्रमाणाभाव इति नानुपमसुखस्थानोपगतिस्तेषां सिद्धेति तदवस्थं चोद्यमः न हि परपक्षे ३५ दोषोद्भावनमात्रतः स्वपक्षाः सिद्धिमुपगच्छन्ति अन्यत्र स्वपक्षलाधकत्वलक्षणपरप्रयुक्तहेतु विरुद्धतोद्भावनात्, न चासौ भवता प्रदर्शितेति, न सम्यगेतत् तदभावासिद्धेः। तथाहि-'देवदत्तात्मा देवदत्तशरीरमात्रव्यापकः, तत्रैव व्याप्त्योपलभ्यमानगुणत्वात्, यो यत्रैव व्याप्त्योपलभ्यमानगुणः स तन्मात्रव्यापकः, यथा देवदत्तस्य गृहे एव व्यायोपलभ्यमानभास्वरत्वादिगुणः प्रदीपः, देवदत्तशरीर एव व्याप्योपलभ्यमानगुणस्तदात्मा' इति । तदात्मनो हि ज्ञानादयो गुणास्ते च १०तदेह एव व्यात्योपलभ्यन्ते, न परदेहे, नाप्यन्तराले । अत्र केचिद्धेतोरसिद्धतामुद्भावयन्तः "शरीरान्तरेऽपि तदङ्गनासम्बन्धिनि तहुणा उपलभ्यन्ते इत्यभिदधति । तथाहि-'देवदत्ताङ्गनाङ्गं देवदत्तगुणपूर्वकम् , कार्यत्वे सति तदुपकारकत्वात्, १-तत् कार्य-वा० बा० विना। २-रव्यवस्थित-वा०, बा०। ३ चान्यह-कां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy