SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४८ प्रथमे काण्डेकर्तृपूर्वकत्वेन प्राक् प्रसाधितत्वात् नात्र प्रयोगे व्याप्त्यसिद्धिः। अत एव स्तनादिप्रवृत्तेरमिलाकर सिद्धिमासादयन् सङ्कलनाशानं गमयति तदपि स्मरणम्, तच्च सुखादिसाधनपदार्थदर्शनम्। 'कारणव्यतिरेकेण कार्योत्पत्तौ तस्य निर्हेतुकत्वप्रसक्तिः' इति अत्र विपर्ययबाधकं प्रमाणं व्याक्षिनिश्चायकं प्रदर्शितम् । अपूर्वप्राणिप्रादुर्भावे च सर्वोऽप्ययं व्यवहारः प्रतिप्राणिप्रसिद्धः उत्सीदेद, ५तजन्मनि सुखसाधनदर्शनादेरभावात्। न हि मातुरुदर एव स्तनादेः सुखसाधनत्वेन दर्शन यतः प्रत्यग्रजातस्य तत्र स्मरणादिव्यवहारः सम्भवेदिति पूर्वशरीरसम्बन्धोऽप्यात्मनः सिद्धः। ने च मध्यावस्थायां सुखसाधनदर्शनादिक्रमेणोपजायमानोऽपि प्रवृत्यन्तो व्यवहारो जन्मादावन्यथा कल्पयितुं शक्यः विजातीयादपि गोमयादेः कारणाच्छालूकादेः कार्यस्योत्पत्ति दर्शनादिति वक्तुं शक्यम्, जलपाननिमित्ततृविच्छेदादावप्यनलनिमित्तत्वसम्भावनया तदर्थिनः १०पावकादी प्रवृत्तिप्रसङ्गात् सर्चव्यवहारोच्छेदप्रसक्तेः। अथ 'देहिनो देहाद् देहान्तरानुप्रवेशस्तदमिलाषपूर्वकः, गृहाद् गृहान्तरानुप्रवेशवत्' इत्यतोऽन्यथासिद्धो हेतुरिति न द्रव्यविशेष साधयति । तदुक्तं सौगतैः "दुःखे विपर्यासमतिस्तृष्णा वाऽवन्ध्यकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति" [ १५ इति, असदेतत् । इह जन्मनि प्राणिनां तदभिलाषस्य परलोकेऽभावान्न ततः स इति युक्तम् । नापि मनुष्यजन्मा हीनशुन्यादिगर्भसम्भवमभिलषति यतस्तत्र तत्सम्भवः स्यात् । तदेवं धर्माऽधर्मयोस्तदात्मगुणत्वनिषेधात् तनिषेधानुमानबाधितमेतत् 'पावकाचूज्वलनादि देवदत्तगुणकारितम्' इति । _ यत् पुनरुक्तम् 'गुणवद् गुणी अप्यनुमानतस्तद्देशेऽस्तीत्यनुमानबाधितस्वदेहमात्रव्यापकात्म२० कर्मनिर्देशानन्तरप्रयुक्तत्वेनाद्यो हेतुः कालात्ययापदिष्टः' इति, तदपि निरस्तम्। तत्र तत्सद्भावासिद्धेः । यच्चान्यत् 'कार्यत्वे सति तदुपकारकत्वात्' इति, तत्र किं तहुणपूर्वकत्वाभावेऽपि तदुपकारकत्वं दृष्टं येन 'कार्यत्वे सति' इति विशेषणमुपादीयेत सति सम्भवे व्यभिचारे च विशेषणो. पादानस्यार्थवत्त्वात् ? कालेश्वरादी दृष्टमिति चेत्, न; कालेश्वरादिकमतहुणपूर्वकमपि य तदुपकारकम् , कार्यमपि किञ्चिदन्यपूर्वकं तदुपकारकं स्यादिति सन्दिग्धविपक्षव्यावृत्तिकत्वाद२५ नैकान्तिको हेतुः। सर्वज्ञत्वाभावसाधने वागादिवनिर्विशेषणस्यैव तस्यामिधाने को दोषः ? व्यभिचारः कालेश्वरादिनेति चेत्, न; नित्यैकस्वभावात् कस्यचिदुपकाराभावात् । अपि च, शत्रुशरीरप्रध्वंसाभावस्तद्विपक्षस्योपकारको भवति सोऽपि तद्गुणनिमित्तः स्यात् । तदभ्युपगमे वा तत्र कार्यत्वासम्भवेन सविशेषणस्य हेतोरवर्तनाद् भागासिद्धो हेतुः। अतहणनिमित्तत्वे तस्यान्य दप्यतहणपूर्वकं तदुपकारकं तद्वदेव स्यादिति न तहुणसिद्धिः। ३० यत् पुनः 'ग्रासादिवत्' इति निदर्शनम् , तत्र यदि तदात्मगुणो धर्मादिर्हेतुः, साध्यवत्प्रसङ्गः। प्रयत्नश्चेत्, न; तत्स्वरूपासिद्धेः-शरीराद्यवयवप्रविष्टानामात्मप्रदेशानां परिस्पन्दस्य चलनलक्षणक्रियारूपत्वान्न गुणत्वम्, तत्त्वे वा गमनादेरपि तत्त्वात् न कर्मपदार्थसद्भावः क्वचिदपीति न युक्तं 'क्रियावत्'इति द्रव्यलक्षणम् । निष्क्रियस्यात्मनो न स इति चेत, कुतस्तस्य निष्क्रियत्वम? अमूर्त्तत्वादिति चेत्, प्रत्यक्षनिराकृतमेतत्-प्रत्यक्षेण हि देशाद्देशान्तरं गच्छन्तमात्मानमनुभवति ३५लोकः। तथा च व्यवहारः-'अहमद्य योजनमात्रं गतः' न च मनः शरीरं वा तव्यवहारविषयः, तस्याहंप्रत्ययावेद्यत्वात् । तदेवं परस्य साध्यविकलं निदर्शन मिति स्थितम् । तेन यदुक्तम् 'यस्मात् तदात्मनो गुणा अपि दूरदेशभाविनि तदङ्गनाङ्गे अन्तराले चोपलभ्यन्ते तस्मात् सिद्धं तस्य सर्वत्रोपलभ्यमानगुणत्वम्, अतः 'सर्वगत आत्मा, सर्वत्रोपलभ्यमानगुणत्वात् आकाशवत्' इत्यनुमानबाधिता तदात्मस्वशरीरमात्रप्रतिज्ञा' इति, तन्निर४० स्तम्। सर्वेषां सर्वगतात्मप्रसाधकहेतूनां पूर्वमेव निरस्तत्वात् । अतो न स्वदेहमात्रव्यापकात्मप्रसाधकहेतोरसिद्धिः । नाप्यनुमानेन तत्पक्षबाधा । न च तदेहव्यापकत्वेनैवोपलभ्यमानगुणोऽपि १ पृ. ७६ पं० २२ । २ न तु म-म०, भां० । ३ पृ. १४७ पं० ३३ । ४ पृ. १४७ पं० २। ५ पृ. १४७ पं०४। ६ पृ. १४६ पं० ३७। पृ० १४६ पं० ४२। ८पृ० १४७ पं. १ पृ. १४७ पं. ४॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy