SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः। १४५ णात्; न हि घटयुक्तमाकाशं मेर्वादौ न सन्निहितम् । अथ शरीरसंयुक्त आत्मप्रदेशो देवदत्तः, स काल्पनिकः, पारमार्थिको वा? काल्पनिकत्वे 'काल्पनिकात्मप्रदेशगुणाकृष्टाः पश्वादयः, तथाभूतात्मप्रदेशं प्रत्युपसर्पणवत्त्वात्' इति तद्गुणानामपि काल्पनिकत्वं साधयेत् । तथा च सौगतस्येव तहुणकृतः प्रेत्यभावोऽपि न पारमार्थिकः स्यात्, न हि कल्पितस्य पावकस्य रूपादयः तत्कार्य वा दाहादिकं पारमार्थिक दृष्टम् । पारमार्थिकाश्चेदात्मप्रदेशाः, तेऽपि यदि ततोऽभिन्नास्तदात्मैव ते ५ इति न पूर्वोक्तदोषपरिहारः। भिन्नाश्चेत् तर्हि तद्विशेषगुणाकृष्टाः पश्वाय इति तेषामेवात्मत्वप्रसक्तिरित्यन्यात्मपरिकल्पना व्यर्था । तेषां च न द्वीपान्तरवर्तिभिर्मुक्तादिभिः संयोग इति 'अदृष्टं स्वाश्रयसंयुक्तेऽन्यत्र क्रियाहेतुः' इति व्याहतम् । संयोगे वा आत्मवत् इत्यनिवृत्तो व्याघातः । अथ तेषामप्यपरे शरीरसंयुक्ताः प्रदेशाः देवदत्तशब्दवाच्याः, तत्राप्यनन्तरदूषणमनवस्थाकारि । अथात्मानमन्तरेण कस्य ते प्रदेशाः स्युरिति तत्प्रदेश्यपर आत्मेत्यभ्युपगमनीयम् । नन्वर्थान्तरभूतत्वे १० आत्मनः कथं 'तस्य ते' इति व्यपदेशः? अथ तेषु तस्य वर्तनात् तथा व्यपदेशः, न सदेतत्; तथाऽभ्युपगमेऽवयविपक्षभाविदूषणावकाशात् । यथा च तेषां सदूषणत्वं तथा प्रतिपादितम प्रतिपादयिष्यते चेत्यास्तां तावत् । तन्न परस्य देवदत्तशब्दवाच्यः कश्चिदस्ति यं प्रत्युपसर्पणवन्तः पश्वादयः स्वक्रियाहेतोर्गुणत्वं साधयेयुः । अतो नैतदपि साधनमात्मनो विभुत्वप्रसाधकम् । __ यदपि 'सर्वगत आत्मा, सर्वत्रोपलभ्यमानगुणत्वात् , आकाशवत्' इति साधनम् , तदप्य-१५ चार; यतो यदि 'स्वशरीरे सर्वत्रोपलभ्यमानगुणत्वात्' इति हेतुस्तथा सति तत्रैव ततस्तस्य सर्वगतत्वसिद्धेविरुद्धो हेत्वाभासः। अथ स्वशरीरवत् परशरीरे अन्यत्र वोपलभ्यमानगुणत्वं हेतुस्तदाऽसिद्धः, तथोपलम्भाभावात्-न हि बुद्ध्यादयस्तद्गुणास्तथोपलभ्यन्ते, अन्यथा सर्वसर्वज्ञताप्रसङ्गः। अथैकनगरे उपलब्धा बुद्धयादयो नगरान्तरेऽप्युपलभ्यन्ते, मनुष्यजन्मवजन्मान्तरेऽपीति कथं न सर्वत्रोपलभ्यमानगुणत्वम् ? न; वायोरपि स्पर्शविशेषगुण एकत्रैकदोपलब्धोऽन्यत्रान्य २० दोपलभ्यमानस्तस्यापि सर्वगतत्वं प्रसाधयेत्, अन्यथा तेनैव हेतोर्व्यभिचारः । अथ तांस्तान् देशान् क्रमेण गतस्य तस्य तईण उपलभ्यते, आत्मनोऽपि तथैव तहुणस्योपलम्भः इति समानं पश्यामः । न च तद्वत् तस्यापि सक्रियत्वप्रसक्तेरयुक्तमेवं कल्पनमिति वाच्यम् , इष्टत्वात् । अथ लोष्टवत् ततो मूर्तत्यप्रसङ्गस्तस्य दोषः । ननु केयं मूर्तिः ? असर्वगतद्रव्यपरिमाणं सेति चेत् नायं दोषः, असर्वगतात्मवादिनोऽभीष्टत्वात् । रूप-रस-गन्ध-स्पर्शवत्त्वं सेति चेत्, न २५ तादृशीं मूर्तिमात्मनः सक्रियत्वं साधयति, व्याप्त्यभावात् ; रूपादिमन्मूर्त्यभावे सक्रियत्वात् । 'यो यः सक्रियः स रूपादिमन्मूर्तिमान, यथा शरः, तथा चात्मा, तस्माद् रूपादिमन्मूर्तिमान' इति कथं न व्याप्तिसंभवः ? असदेतत्; मनसाऽपि व्यभिचारात् । न च तस्यापि पक्षीकरणम्, 'रूपादिविशेषगुणानधिकरणं सद् मनोऽर्थ प्रकाशयति, शरीराद्यर्थान्तरत्वे सति सर्वत्र शानकारणत्वात्, आत्मवत्' इत्यनुमानविरोधप्रसङ्गात् । न च सक्रियत्वं रूपादिमन्मूर्त्य-३० भावेन विरुद्धं यतः ततस्तनिवर्तमानमात्मनि तथाविधां मूर्ति साधयेत् । न च तथाविधमूतिरंहितेऽम्बरादौ तददर्शनात् सिद्धो विरोधः, एकशाखाप्रभवत्वस्याप्यन्यत्र पक्षेऽदर्शनाद् विरोधेसिद्धिप्रसक्तेः । पक्ष एव व्यभिचारदर्शनात सा तत्र नेति चेत्, नः सक्रियत्वस्यापि तथा व्यभिचारः समानः, पक्षीकृत एवात्मनि रूपादिमन्मूर्तिरहिते तदर्शनात् । अनेनैव तत्साधनाद न व्यभिचार इत्येकशाखाप्रभवत्वानुमानेऽपि स म्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वमुभयत्र तुल्यम् । तन्न सक्रियत्वमात्मनो रूपादिमन्मूर्तित्वं साधयतीति व्यवस्थितम् । ____ अथ सक्रियत्वे तस्यानित्यत्वम् । तथाहि-'यत् सक्रियं तद् अनित्यम् , यथा लोष्टादि, तथा चात्मा, तस्मादनित्यः' इति, एतदपि न सम्यग् परमाणुभिरनैकान्तिकत्वात्; कथञ्चिदनित्यत्वस्ये १ पृ. १४४ पं० ४१ । २ पृ० १४२ पं० १५। ३ प्र० पृ. पं० २ । ४ पृ० १०२ पं० ११ । ५-भावेऽपिन भां०, मां०। ६-तः तन्निव-आ०, वि०, हा०। ७-रहिताम्ब-आ०, वि०, हा०, कां०, अ०। ८-न्यथा प-मा०, भां०।-न्यत्राप-वि०। ९-धशक्तिप्र-वा०, बा. विना । सत. १९
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy