SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - एतेन यदुक्तं परेण - "अदृष्टमेवायस्कान्तेनाकृष्यमाणलोहदर्शने सुखवत्पुंसो निःशल्यत्वेन तत्क्रियाहेतुः " [ ] इति तन्निरस्तम्, सर्वत्र कार्यकारणभावेऽस्य न्यायस्य समानत्वात् अदृष्टमेव कारणं स्यात् यस्य शरीरं सुखं दुःखं चोत्पादयति तददृष्टमेव तत्रं हेतुरिति न तदारम्भकावयवक्रिया संयोगादयः । अपि च तददृस्य कथं तद्धेतुत्वम् ? तस्य भावे भावादभावेऽमा५वादिति चेत् किं पुनरयस्कान्तस्पर्शाद्यभाव एव तत्क्रिया दृष्टा येनैषां तत्र कारणत्वाक्लृप्तिः १ ततो न दृष्टानुसारेण तत्रस्थस्यैवादृष्टस्य तं प्रति तत्क्रियाहेतुत्वम् । प्रयत्नवैचित्र्याभ्युपगमे च तोरनैकान्तिकत्वम् । १४४ अथ सर्वत्रादृस्य वृत्तिस्तर्हि सर्वद्रव्य क्रियाहेतुत्वम् । यददृएं यद् द्रव्यमुत्पादयति तत् तत्रैव क्रियामुपरचयतीत्यभ्युपगमे शरीरारम्भकेषु परमाणुषु ततः क्रिया न स्यादित्युक्तम् । न च गुणत्व१० मप्यदृष्टस्य सिद्धमिति 'क्रिया हेतुगुणत्वान्' इत्यसिडो हेतुः । अथ 'अदृएं गुणः, प्रतिषिध्यमानद्रव्य कर्मभावे सति सत्तासंबन्धित्वात्. रूपादिवत्' न च प्रतिषिध्यमानद्रव्यत्वमसिद्धम् । तथाहि'न द्रव्यमदृष्टम्, एकद्रव्यत्वात् रूपादिवत्' इति असदेतत् एकद्रव्यत्वस्यासिद्धताप्रतिपादनात्, सत्तासंबन्धित्वस्य चेति । यदपि तद्गुणत्वसाधनमुक्तम् 'देवदत्तं प्रत्युपसर्पन्तः पश्वादयो देवदत्तविशेषगुणाकृष्टाः तं प्रत्युपसर्पणवत्त्वात् ग्रामादिवत् इति, तदप्ययुक्तम्: यतो यथा तद्विशेष१५ गुणेन प्रयत्नाख्येन समाकृशस्तं प्रत्युपसर्पन्तो ग्रासादयः समुपलभ्यन्ते तथा नयनाञ्जनादिद्रव्यविशेषेणापि समाकृष्टाः स्यादयस्तं प्रत्युपसर्पन्तः समुपलभ्यन्ते एव ततः किं प्रयत्नसधर्मणा केनचिदाकृष्टाः पश्वादयः, उत नयनाञ्जनादिसधर्मणा' इति संदेहः, शक्यते ह्येवमनुमानमारचयितुं परेणापि - ' नयनाञ्जनादिसधर्मणा विवादगोचरचारिणः पश्वादयः समाकृशः देवदत्तं प्रत्युपसर्पन्ति, तं प्रत्युपसर्पणवत्वात् स्त्र्यादिवत् । अथ तदभावेऽपि प्रयत्नादपि तद्प्रेरनैकान्तिकत्वम्, २९ प्रयत्नसधर्मणो गुणस्याभावेऽप्यञ्जनादेरपि तद्प्रेर्भवदीयहेतोरनैकान्तिकत्वम् । न चात्रानुमीयमानस्य प्रयत्नसधर्मणो हेतोः सद्भावादव्यभिचारः, अन्यत्राप्यञ्जनादिसधर्मणोऽनुमीयमानस्य सद्भावेनाव्यभिचारप्रसङ्गात् । तत्र प्रयत्नसामर्थ्यादस्य वैफल्ये ऽन्यत्राप्यञ्जनादिसामर्थ्याद् वैफल्यं समानम् । अथाअनादेरेव तद्धेतुत्वे सर्वस्य तद्वतः ख्याद्याकर्षणप्रसक्तिः, न चाञ्जनादौ सत्यप्यविशिष्टे तद्वतः सर्वान् प्रति तदागमनम्, ततोऽवसीयते तदविशेषेऽपि यद्वैकल्यात् तन्नेति तदपि कारणम् नाञ्ज२५ नादिमात्रम्' इति । तदेतत् प्रयत्नकारणेऽपि समानम्ः न हि सर्व प्रयत्नवन्तं प्रति ग्रासादय उपसर्पन्ति तदपहारादिदर्शनात् । ततोऽत्राप्यन्यत् कारणमनुमीयताम् ः अन्यथा न प्रकृते ऽपि, अविशेषात् । ततः प्रयत्नवदञ्जनादेरपि तं प्रति तदाकर्षणहेतुत्वात् कथं न संदेहः ? अञ्जनादेः रुयाद्याकर्षणं प्रत्यकारणत्वे गन्धादिवत् तदर्थिनां न तदुपादानम् । न च दृष्टसामर्थ्यस्याप्यञ्जनादेः कारणत्वक्लृप्तिपरिहारेणान्यकारणत्वकल्पने भवतोऽनवस्थामुक्तिः । अथाञ्जनादिकमदृष्टसहकारित्वात् ३० तत्कारणं न केवलमितिः नन्वेवं सिद्धमदृष्टवदनादेरपि तत्र कारणत्वम्, ततः संदेह एव 'किं ग्रासादिवत् प्रयत्नसधर्मणाऽऽकृष्टाः पश्वादयः, किं वा रुयादिवदञ्जनादिसधर्मणा तत्संयुक्तेन द्रव्येण' इति संदिग्धं 'गुणत्वात्' इत्येतत् साधनम् । सपरिस्पन्दात्मप्रदेशमन्तरेण ग्रासाद्याकर्षणहेतोः प्रयत्नस्यापि देवदत्तविशेषगुणस्य परं प्रत्य सिद्धत्वात् साध्यविकलता चात्र दृष्टान्तस्य । यच्च यद् देवदत्तं प्रत्युपसर्पति' इत्युक्तं तत्र कः पुनरसौ देवदत्तशब्दवाच्यः ? यदि शरीरम्, ३५ तदा शरीरं प्रत्युपसर्पणात् शरीरगुणाकृष्टाः पश्वादय इत्यात्मविशेषगुणाकृष्टत्वे साध्ये शरीरगुणाकृष्टत्वस्य साधनाद् विरुद्धो हेतुः । अथात्मा, तस्य समाकृष्यमाणपदार्थदेश-कालाभ्यां सदाऽभिसंबन्धाद् न तं प्रति कस्यचिदुपसर्पणम्, अन्यदेशं प्रत्यन्यदेशस्योपसर्पणदर्शनात् अन्यकालं प्रत्यन्यकालस्य च यथाङ्कुरं प्रत्यपरापरशक्तिपरिणाम प्राप्तेर्बीजादेः । न चैतदुभयं नित्यव्यापित्वाभ्यामात्मनि सर्वत्र सर्वदा सन्निहिते संभवति अतो 'देवदत्तं प्रत्युपसर्पन्तः' इति धर्मिविशेषणम्, ४० 'देवदत्त गुणाकृष्टाः' इति साध्यधर्मः, 'देवदत्तं प्रत्युपसर्पणवत्त्वादू' इति साधनधर्मः परस्य स्वयं'चिरचितमेव । न च शरीरसंयुक्त आत्मा सः, तस्यापि नित्यव्यापित्वेन तत्र सन्निधानेनानिवार १ - यस्यास - वा०, बा० । १४१ पं० २९ । ६ पृ० १३७ विरचि- मां०, भां० । २ - त्राहे - वा०, बा० । ३ पृ० १४३ पं० १४ । ४ पृ० १४१ पं० ४ । ५ पृ० ३५ । ७ पृ० १३७ पं० ३६ । ८-रूपविधिरचि-वा०, बा० । ९-चि
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy