SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः । १४३ न्यत्र, तेsपि देशा यदि ततो भिन्नास्तेष्वपि स तथैव वर्तते इत्यनवस्था । अभिनाश्चेत् उक्तो दोषः । कथञ्चित्पक्षे परवाद एव समर्थितः स्यादित्यात्मना सहादृष्टस्य कथञ्चिदनन्यभाव एव एकद्रव्यत्वमित्यविभुत्वाद् गुणानां तदव्यतिरिक्तस्यात्मनोऽप्यविभुत्वमिति विपक्षसाधकत्वादेकद्रव्यत्वलक्षणस्य हेतु विशेषणस्य विरुद्धत्वम् । 'क्रिया हेतुगुणत्वात्' इत्यत्रापि यदि देवदत्तसंयुक्तात्मप्रदेशे वर्तमानमदृष्टं द्वीपान्तरवर्तिषु ५ मुक्ताफलादिषु देवदत्तं प्रत्युपसर्पणवत्सु क्रियाहेतुः, तदयुक्तम्; अतिदूरत्वेन द्वीपान्तरवर्तिभिस्तैस्तस्यानभिसंबन्धित्वेन तत्र क्रियाहेतुत्वायोगात्, तथापि तद्धेतुत्वे सर्वत्र स्यात्, अविशेषात् । अथानभिसंबन्धाविशेषेऽपि यदेव योग्यं तदेव तेनाकृष्यते न सर्वमिति नातिप्रसङ्गः, न चक्षुषोऽ. प्राप्यकारित्वेऽपि यदेव योग्यं तदेव तद्राह्यमिति यैदुक्तं परेण - "अप्राप्यकारित्वे चक्षुषो दूव्यवस्थितस्यापि ग्रहणप्रसङ्गः " [ ] इत्ययुक्तं स्यात् । अथ स्वाश्रयसंयोग- १० संबन्धसम्भवात् 'अनभिसम्बन्धात्' इत्यसिद्धम् । तथाहि यमात्मानमाश्रितमदृष्टं तेन संयुक्तानि देशान्तरवर्तिमुक्ताफलादीनि देवदत्तं प्रत्याकृष्यमाणानि, नः सर्वस्याऽऽकर्षणप्रसङ्गात् तेनाभिसम्बन्धाविशेषात् । न च यददृप्रेन यज्जन्यते तत् तेनाकृष्यत इति कल्पना युक्तिमती, देवदत्तशरीरारम्भकपरमाणूनां तददृष्टजन्यत्वेनानाकर्षणप्रसङ्गात् तथाप्याकर्षणेऽतिप्रसङ्गः प्रतिपादितें एव । यथा च कारणत्वाविशेषे घटदेशादौ सन्निहितमेव दण्डादिकं घटादिकार्यं जनयति अदृष्टं १५ त्वन्यथेत्यभ्युपगमस्तथा बाह्येन्द्रियत्वाविशेषेऽपि त्वगिन्द्रियं प्राप्तमर्थमवभासयति लोचनं त्वन्यथेत्यभ्युपगमः किं न युक्तः ? नापि द्वीपान्तरवर्तिमुक्तादिसंयुक्तात्मप्रदेशे वर्तमानं तं प्रत्युपसर्पण हेतुः, विकल्पानुपपत्तेः । तथाहि - यथा वायुः स्वयं देवदत्तं प्रत्युपसर्पणवान् अन्येषां तृणादीनां तं प्रत्युपसर्पणहेतुस्तथा मपि तं प्रत्युपसर्पत् स्वयमन्येषां तं प्रत्युपसर्पणहेतुः, तथा सत्यदृष्टस्येव मुक्तादेरपि तथैव २० तं प्रत्युपसर्पणाविरोधाद् व्यर्थमदृष्टपरिकल्पनम् । तथाभ्युपगमे च 'यद् देवदत्तं प्रत्युपसर्पति तद् देवदत्तगुणाकृष्टं तं प्रत्युपसर्पणात्' इति हेतुरनैकान्तिकः अदृष्टेनैव । वायुवश्च सक्रियत्वमदृष्टस्य गुणत्वं बाधते । शब्दवच्चापरापरस्योत्पत्तावपरमदृष्टं निमित्तकारणं तदुत्पत्तौ प्रसक्तम्, तत्राप्यपरमित्यनवस्था; अन्यथा शब्देऽपि किमदृलक्षण निमित्त परिकल्पनया ? अदृष्टान्तरात् तथ्य तं प्रत्युपसर्पणे तद्यदृशन्तरं तं प्रत्युपसर्पत्यदृष्टान्तरात्, तदपि तदन्तरादित्यनवस्था । २५ अथ तत्रस्थमेव तत् तेषां तं प्रत्युपसर्पणे हेतु:, तदपि न युक्तम्; अन्यत्र प्रयत्नादावात्मगुणे तथाsदर्शनात् न हि प्रयत्नो ग्रासादिसंयुक्तात्मप्रदेशस्थ एवं हस्तादिसंचलन हेतुर्ग्रासादिकं देवदत्तमुखं प्रति प्रापयन् दृष्टः, अन्तरालप्रयत्नवैफल्यप्रसङ्गात् । अथ प्रयत्नवैचित्र्यदृष्टेरदृष्टेऽप्य न्यथा कल्पनम् । तथाहि कश्चित् प्रयत्नः स्वयमपरापरदेशवान परत्र क्रिया हेतुर्यथाऽनन्तरोदितः; अपरश्चान्यथा यथा शरासनाऽध्या संपदसंयुक्तात्मप्रदेशस्थ एव शरीरा (शरा) दीनां लक्ष्य प्रदेशप्राप्ति - ३० क्रिया हेतुः । यद्येवम्, इयं चित्रता एकद्रव्याणां क्रिया हेतुगुणानां स्वाश्रयसंयुक्तासंयुक्तद्रव्य क्रिया हेतुत्वेन किं नेष्यते विचित्रशक्तित्वाद् भावानाम् ? तथाऽप्रेरिति नोत्तरम्, अयस्कान्तभ्रामक स्पर्शगुणस्यैकद्रव्यस्य स्वाश्रयाऽसंयुक्त लोहद्रव्य क्रिया हेतुत्वेऽप्याकर्षकाख्यद्रव्यविशेषव्यवस्थितस्य तथाविधस्यैव तस्य स्वाश्रयसंयुक्तलोहद्रव्य क्रिया हेतुत्वदर्शनात् । अथ द्रव्यं क्रियाकारणम् न स्पर्शादिगुणः, द्रव्यरहित क्रिया हेतुत्वादर्शनात्, नः वेगस्य क्रियाहेतुत्वम्, क्रियायाश्च संयोगनिमित्तत्वम् तस्य ३५ च द्रव्यकारणत्वं तत एव न स्यात्, तथा च 'वेगवत्' इति दृष्टान्तासिद्धिः । अथ द्रव्यस्य तत्कारणत्वे वेगादिरहितस्यापि तत्प्रसक्तिः, स्पर्शादिरहितस्यायस्कान्तस्यापि स्पर्शस्याकारणत्वेऽन्यत्र क्रिया हेतुत्वप्रसक्तिः । तद्रहितस्य तस्यादृष्टेर्नायं दोषस्तर्हि लोहद्रव्य क्रियोत्पत्तावुभयं दृश्यत इत्युभयं तदस्तु, अविशेषात् । एवं सति 'एकद्रव्यत्वे सति क्रिया हेतुगुणत्वात्' इति व्यभिचारी हेतुः । १- ष्वपि तथै- गु० । २ अस्य परकीयवाक्यस्य आशयः न्यायवार्तिके पृ० ३३० २४ । ३ - कारि च - वि० । ४० प्र० पृ० पं० १२। ५- स एव सं- वि० । ६ अत्र स्थले प्रमेयकमलमार्तण्डेऽपि " यथा शरासनाध्यासपदसंयुक्तारमप्रदेशस्थ एव शरीरादीनां लक्ष्य प्रदेशप्राप्तिहेतुरिति" इत्येव पाठः पृ० १७२ द्वि०, पं० १५ । तथापि ' शरादीनाम् ' इति सम्यग् भाति, वि० प्रतावपि संशोधितः पाठः तथैव उपलभ्यते । अयस्कान्तगतो यो भ्रामकः स्पर्शगुणस्तस्येत्यर्थः । ८- स्य तस्य क्रि-कां० । ९ अ ' तर्हि ' पदमध्याहार्यम् ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy