________________
दीपालिकाव्याख्यानम् ॥ ]
[ १७५
स्वच्छन्दतया गच्छन्ति स्म हसन्ति स्म नग्नीभूय चाऽसमञ्जसाश्लीलादि वदन्तो नृत्यादिकां चेष्टां कुर्वन्ति स्म । एवंविधां चेष्टां कुर्वन्तस्ते स्वसमानां चेष्टामकुर्वन्तौ नृपामात्यौ दृष्ट्वैवं मन्त्रणां चक्रुरेतौ भूपालसचिवौ ग्रथिलौ सञ्जातौ, ततो भूपालसचिवस्थानानर्हावेतौ राज्यादुत्थाप्यावनयोः स्थाने चान्यौ स्थाप्यौ सुबुद्धिमन्त्री तैः कृतां तां मन्त्रणां श्रुत्वा राजानं समाचख्यौ तन्निशम्य नृपतिरुवाचैतेभ्यो 5 ग्रथिलेभ्यः स्वरक्षणं कथं कर्तव्यं तदा बुद्धिनिधिरमात्यः प्रोवाच-राजन् ! ग्रथिलैः सह ग्रथिलीभूयाऽऽवां तिष्ठेवस्तर्हि जीवेवोऽत्र जीवनस्याऽन्यः कश्चिदुपायो नाऽस्त्येतदेवसमयोचितं कर्म तदाकर्ण्य सामात्यः पृथ्वीपो ग्रथिलीभूय तैर्ग्रथिलैः सह चेष्टां कर्तुं लग्नः साम्राज्यलक्ष्मीं च ररक्ष । ततः कियत्सु वासरेषु गच्छत्सु सुवृष्टिः सञ्जाता तत्पयःपानतो लोकाः स्वस्थाः सञ्जातास्ततो धरापालामात्यौ प्रागिव राज्यं 10 पालयाञ्चक्रतुरेवं भाविसुसमयकाङ्क्षिणो गीतार्थसुसाधवो वेषधारिपार्श्वस्थादिभिः सह सदृशीभूय व्यवहरिष्यन्तीति । भगवदुक्तं स्वप्नफलं समाकर्ण्य वैराग्यभावित - मानसः पुण्यपालभूपालः ससाम्राज्यं सर्वसङ्गं त्यक्त्वा भगवत्पार्श्वे प्रव्रज्यां गृहीत्वा यथाविधि पालयित्वा शिवं ययौ ।
अस्मिन् विषये केचित् सूरिवरा कथयन्ति यच्चन्द्रगुप्त धरापालपृष्टो भद्रबाहु - 15 स्वामी षोडशस्वप्नफलानि प्रोक्तवान् तथाहि - कदाचिदष्टमपट्टदिवाकरः श्रीभद्रबाहुस्वामी पाटलिपुरस्य पाटलिनामवनखण्डे समवसृतस्तन्निशम्य पाटलिपुराधिपतिः श्रीचन्द्रगुप्तभूपः श्रीकोणिकनृपवत् समागत्य गुरुं चाभिवन्द्य यथास्थानं च समुपविश्य प्रोवाच भगवन् पाक्षिकपौषधोपवासयुक्तेन धर्मचिन्तां कुर्वता मया निशायाश्चरमे यामे एवंविधाः षोडश स्वप्ना दृष्टास्तेषां फलं कथय, 20 तच्छ्रुत्वा भद्रबाहुस्वामिना प्रोक्तं- राजन् ! श्रुणु प्रथमस्वप्ने यत्त्वया कल्पपादपस्य शाखा भग्ना निरीक्षिता तेनाऽद्य - प्रभृति कोऽपि धरित्रीनाथो दीक्षां न स्वीकरिष्यति । द्वितीयस्वप्नेऽनवसर एव भास्करोऽस्तङ्गतो दृष्टस्तस्मात् केवलज्ञानमस्ततां गमिष्यति। तृतीयस्वप्ने यत्त्वया शशी शतच्छिद्रवानालोकितस्तस्मादेकस्मिन् धर्मे बहवः पन्थानो भविष्यन्ति । चतुर्थे स्वप्ने यत्त्वया भूता नृत्यं कुर्वन्तो निभालि - 25 तास्तस्मान्मिथ्यामतयो जना भूतवत् नृत्यं करिष्यन्ति । पञ्चमे स्वप्ने यत्त्वया द्वादशफणाभृत्फणी प्रेक्षितस्तस्माद् द्वादशसंवत्सरान् यावद् दुष्कालं भविष्यति ।
D:\chandan/new/kalp-2 / pm5\ 3rd proof