SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७४] [ दीपालिकापर्वसंग्रहः ॥ परस्परं निन्दाऽऽक्षेपकलहादिना लघुतां नेष्यन्ति तद् दृष्ट्वा परयुथिका अपि जिनधर्मं निष्प्रभावं ज्ञात्वा पराभविष्यन्तीति । षष्ठे स्वप्ने यत्त्वयाऽवकरे कमलस्योत्पत्तिर्दृष्टा तत्फलमेवं यथा कमलस्योत्पत्तिः कमलाकरेषु श्लाघ्या तथा धर्मस्योत्पत्तिः सुकुलेषु श्लाध्या किं तु पञ्चमारके कालप्रभावेणावकरेषु कमलस्योत्पत्तिरिव हीननिष्प्रभाव5 दुष्कुलेषु धर्मस्योत्पत्तिर्भविष्यतीति । सप्तमे स्वप्ने यत्त्वयोषरभूम्यां बीजवपनं कुर्वन् कृषीवलो दृष्टस्तत्फलमेवं पञ्चमारके कालानुभावेन मूढकृषीवलसदृशाः सत्पात्रकुपात्रज्ञानविकला मूढजना उषरभूमितुल्यकुपात्रेषु सत्पात्रधियाऽऽहारादिदानवपनं करिष्यन्ति, सन्मार्गस्थितानाहारादिदोषवर्जनपरान् सुसाधून् हसिष्यन्ति प्रायेण च लोकानां कुपात्रेषु भक्तिदानसत्कारादिकं भविष्यतीति । अष्टमे स्वप्ने यत्त्वया स्वर्ण10 कलसा मलमलीना दृष्टास्तत्फलमेवं पञ्चमारके कालप्रभावेण ज्ञानक्रियातपःप्रभृतिसद्गुणसुभासुराः प्रभासुरस्वर्णघटनिभाः सुसाधवः स्तोका भविष्यन्ति, किन्तु चारित्रदोषसेवनमलीना वेषधारिणो बहवो भविष्यन्ति, प्रभूतमत्सराश्च ते सुसाधुभिः सह कलहं करिष्यन्ति, लोके च सुसाधुकुसाधूनां समत्वं भावि कुसाधूनां च बलं वृद्धि गमिष्यति, ततोऽवसरज्ञा गीतार्थसुसाधवः पार्श्वस्थादिवेषधारिभिः सह जलग्रथिल15 लोकेन सह पूर्ण भूपसुबुद्ध्यमात्यवत् समत्वेन व्यवहरिष्यन्ति । तथाहि पृथ्वीपुर्यभिधानायां नगर्यां पूर्णाख्यनृपतिरासीत् तस्य सुबुद्ध्याख्येन मन्त्रिकदा लोकदेवनामा नैमित्तिकश्रेष्ठ एवं पृष्टो भो नैमित्तिकवर ! किञ्चिन्निमित्तं प्रकाशय तदासौऽवदत् मासादनन्तरं यो घनाघनो वर्षिता तस्य वारि यः कोऽपि पास्यति स ग्रथिलो भविष्यति । ततः कियत्यपि काले याते सुमेघो वर्षिष्यति 20 तत्पयःपानेन सर्वेऽपि स्वस्था भविष्यन्ति । नैमित्तिकोक्तं निशम्य समुत्पन्नाश्चर्योऽमात्यो भूपतिपार्श्वं समागत्य तत्सर्वमवदत्तन्निशम्य नृपः पटहताडनपूर्वकं पय:संग्रहणकृते मासादनन्तरं च भाविन्या वृष्ट्याः पयःपाननिषेधकृते लोकान् ज्ञापयामास । नृपाज्ञया सर्वे लोका जलसंग्रहं चक्रुस्ततो नैमित्तिको क्तदिवसे मेघोऽवर्षत् पृथ्वीपालाज्ञया कोऽपि तत्पयो न पपौ, परं बहुषु वासरेषु गतेषु 25 लोकसंगृहीतं पयो निष्ठां जगाम ततो लोका भूपाज्ञामवगणय्य तद्वृष्टिवारि पपुस्तत्पयोनुभावतः सर्वे लोका ग्रथिलाः सञ्जाता, अनिष्ठितजलौ च नृपामात्यौ तद्वृष्टिवारि न पपतुस्तेन तौ ग्रथिलौ न सञ्जातौ । ग्रथिलीभूता सामान्ताद्या लोकास्तु D:\chandan/new/ kalp-2 / pm5\ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy