SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सञ्चयः चेत्कस्यचिद् गतमतेन मतं मतं ते, म्यादस्य विश्वमाहितस्य ततः क्षितिः का ?। रुच्या न चौरजनचेतसि चन्द्रिका चे-- च्छोच्या भवेत् किमियतापि जगत्प्रियेयम् ॥२५॥ पश्यन्त्यभव्यभवनो नहि दूरभव्या श्वाशेषविश्वविदितं भगवन् ! भवन्तम् । किं वा जगत्प्रकटमम्बुजवन्धुत्रिम्ब मालोकयन्ति जनुषान्धजनाः कदाचित् ? ॥२६॥ मिथ्यात्वमोहविषमाहिमहाविषेण, प्रस्तस्य विश्वजगतो गतचेतनस्य । अस्य प्रबोधनविधावनुपाधिशुद्धं, न त्वन्मतामृतमृवे ह्यपरोऽस्त्युपायः ॥२७॥ तप्तं तपो न विततं न जपोऽपि जप्तः, क्लप्ता न दैवतशतक्रमपर्युपास्तिः । नानाक्रिया अपि कृता नहि मुक्तये स्यु स्वच्छासनं जिन : विना भविनां कदाचित् ॥२८॥ तप्त्वा तपांस्यपि परैः शरदां शतानि, ___या यत्नवद्भिरपि सम्पदवाप्यते नो। चित्रं जना जिनपते ! त्वदुपज्ञपुण्या दन्तर्मुहुर्तविहितादपि तां लभन्ते ॥२९॥ त्वदर्शनं जगति न प्रतिभाति किश्चि दन्तर्गतं तव यदीश ! न शासनस्य । किं सम्भवेदिह भवेऽपि महन्महस्त दन्तर्भवेन्न यदहर्पतिकान्तिपुञ्जे ! ॥३०॥ या वागगोचरसुरासुरसौख्यसम्पद् , या मानुषा सुखसमृद्धिरतिप्रवृद्धा । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy