SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्तोत्री २७ त्वात् । तदुकं परिभाषायां- सम्बन्धिशब्दः सापेक्षो, नित्यं सर्वः प्रवर्तते । स्वार्थवत् सा व्यपेक्षाऽस्य, वृत्तावपि न हीयते ॥३॥ मध्यासितयुष्मभ्यं पर्षद्भ्यो द्वादशभ्य इह भव्यः। परिमुक्तनित्यवैरादिभ्यः श्लाघेत को न जनः?||४|| __ अव०मध्ये आसिताः-स्थिता यूयं यासां ताभ्यः. ' अभ्यं भ्यसः ' (२।१।१८। इत्यभ्यं । आदिशब्दात् क्षुत्पिपासादिबाधाग्रहणं । श्लाधिक्रियाभिप्रेयत्वात् सम्पदानन्वे चतुर्थी ॥ ४ ॥ संसद्यनुकृतयुष्मन्मूर्तिभ्योऽन्याभ्य इह सुरकृताभ्यः। यौष्माकमूलमूर्तेर्मेदं न विवेद विदुरोऽपि ॥५॥ __अव०-अनुकृता यूयं याभिस्ताभ्यः, भ्यसोऽद्, मूलं पार्था द्ययोरिति (अभिधान०) वचनात् मूलमाद्यार्थे, 'प्रभृत्यन्यार्थ०' १२।२।७५। इति पञ्चमी ॥५॥ अन्तर्मूगेन्द्रविष्टरनिविष्टयुष्माकमुत्तमाः पुरुषाः । प्राकाराणां त्रितयं रम्यं के नो दिदृक्षन्ते ?॥६॥ सन्मुखनिविष्टयुष्मास्वनल्पसोपानपङ्क्तिषु सुखेन । आरोहन् समवसृतौ बालो वृद्धोऽपि न श्राम्येत् ॥७॥ अव०-मृगेन्द्रावयवं विष्टरं, मयूख्यसकादित्वात्समासः । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy