SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ द्वितीयः काण्डः । चतुर्वेषु च वाग् वाग्मी प्रख्या आख्याः प्रचक्षसा । सकारान्तास्त्रयोऽमी स्युः, शुक्रे काव्य-कवी भृगुः॥२१॥ भार्गवेऽप्यपुत्रे तु शनैश्चर-शनी शनैः ।। अव्ययं, सौरि-सौरौ द्वौ दन्त्य-तालव्यपूर्वकौ ॥२२॥ राही स्वर्भाणु-वर्भानू तमास्तमस्तमोऽपि च । द्वौ सान्तौ तृतीयोऽदन्तो, ध्रुव उत्तानपादकः ॥२३॥ औत्तानपादिः, कौम्भौ तु मैत्रावरुण-वारुणी । मैत्रावरुण आग्नेय अग्निमारुत इत्यपि ॥ २४ ॥ अगस्त्येऽगस्तिरेकोक्त्या शशि-भास्करयोः पुनः । पुष्पदन्तौ पुष्पवन्तावुपलिङ्गमुपद्रवे ॥ २५ ॥ उपालिङ्गं रिष्टा-ऽरिष्टे माङ्गल्ये चाप्यनेहसि । कालेऽतिथोऽतिथः कालविशेषे सुषमा तथा ॥ २६ ॥ दुःषमा षोऽत्र मूर्धन्यः, काष्ठा त्वष्टादश स्मृताः । निमेषाष्ठाग्रगो वर्णोऽत्र घट्यां नाडि-नाडिके ॥ २७ ॥ नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् । दिवा प्रतिदिवा नान्तौ धुररत्र्यव्ययमप्यहः ॥ २८ ॥ अल्यहे ङ्यन्त-टाबन्तावहः सन्तोऽथ वासरः । वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक्॥ २९ ॥ दिवाव्ययं सप्तम्यर्थे, व्युष्टे कल्यं सकाल्यकम् । उषः-प्रत्युषसी सान्तौ प्रत्यूषोऽपि प्रगेऽव्ययम् ॥३०॥ प्रारू पूर्वेयुरेतौ च गोस-गोसर्गको समौ । मध्याह्न तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy