SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे दिनावसाने सायोऽस्त्री सायं स्याद् मान्तमव्ययम् । पितृप्रस्वां सन्धा सन्ध्या सन्धिश्वापि विभावरौ ॥३२॥ विभावरी निशा निट् च निशीथश्च निशीथिनी । निशीथ्या वासुरा मध्यदन्त्य - तालव्ययुक्, तमिः ॥३३॥ तमी तमा तामसी च वसतिर्वासतेय्यपि । शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः ॥ ३४ ॥ उसास्त्रयोऽमी सान्ताः स्युरुषा दोषाऽप्यनव्यये । अव्यये च तथाऽऽदन्तौ, रजनी रजनिः स्मृता ॥३५॥ त्रियामा यामिनी यामा याम्या रात्री च रात्रियुक् । नक्ता नक्तं तथा नक्तं मान्तमव्ययमप्यथ ॥ ३६ ॥ ज्योत्स्नायुक्तक्षपायां तु ज्योत्स्नी ज्योत्स्नापि, दर्शनिट् । तमिस्रा दन्तसंयोगा द्युः पक्षी निड्डयावृतः ॥ ३७ ॥ ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः । सान्तं, तमिस्रा तमिस्त्रं सदन्त्यौ, तिमिरं तथा ॥ ३८ ॥ सन्तमसा-श्वतमसे अन्धातमसमन्धतः । سی — तमसं चाऽन्धकारान्धे भूच्छायमनृलिङ्गकम् ॥ ३९ ॥ तुल्याहर्निश विषुशो विषुवद् विशुत्रं तथा । विषुवं, बहुलः कृष्णपक्षे मध्य उकारवान् ॥ ४० ॥ पूर्णिमायां पौर्णमासी, दर्शेऽमावास्यमावसी । अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः ॥४१॥ चतुर्दशी विध्वदर्शे शिनीवाली सयुग्मभाक् । मासे माः स्याद् वर्षकोशो वर्षाशकयुतस्तथा ॥ ४२ ॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy