SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥५०॥ सुभाषितम् । षष्ठपर्वान्तर्गतानि सुभाषितानि । उत्पन्ने तीर्थनाथे सदोत्सवमयं जगत् । महात्मानो हि कुर्वति सेवकेष्वपि सत्कृतिम् । आत्मनीनो हि सर्वोऽपि स्तोकेच्छुः कोऽपि नात्मनः । तिष्ठन्ति न चिरं जातु मानिनः श्वशुरौकसि । याति वर्णपरावृत्त्या रुपं काव्यवदन्यताम् । विना पतिं कुलस्त्रीणां वासो ह्यन्यत्र नोचितः । गीतहार्या मृगा अपि । शोभते पुष्पदाम्नैव प्रतिमा सकलाऽपि हि । वरं मणिः केवलैव न तु काचाङ्गुलीयगा । वरं सरिज्जलरिक्ता न तु यादः समाकुला ।। शून्यैव हि वरं शाला न तु तस्करपूरिता । अद्रुमैव वरं वाटी विषद्रुममयी न तु ॥ अनुदूढा वरं नारी रुपयौवनवत्यपि । निष्कलेनाऽकुलीनेन न तु पत्या विडम्बिता ।। बहुरत्ना हि भूरियम् । सम्बन्धश्च सखित्वं च समयोरेव शोभते । आस्तामत्र सतां सङ्गः परलोकेऽपि शर्मणे । ॥५०॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy