SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ४६॥ पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिन चरितम् । अपानघण्टै स्माङ्गैः कक्षानासिकवादकैः । कर्णधूनर्तकैरन्यजनभाषानुवादकैः ।। १२६ ॥ विदूषकविटप्रायः सद्यः कपटमुग्धकैः । ग्रामीणवदहास्यन्त छेकाः पौरा अपि क्वचित् ।। १२७ ।। ॥त्रिभिर्विशेषकम् ।। आकाशभाषणैर्दैवोपालभैरश्रुमोक्षणैः । अस्थानयाच भूमिलुण्ठनै रोदनैरपि ।। १२८ ।। भृगुपाततरूद्बन्धजलवहिप्रवेशनैः । विषादिभक्षणैः शस्त्रघातैर्हत्ताडनैरपि ।। १२९ ॥ ऋद्धिप्रणाशेष्टवधादिजन्मभिरनेकशः । आर्द्राकृता नृशंसा अप्यमुञ्चन्ताश्रु कुत्रचित् ।।१३०॥ ॥त्रिभिर्विशेषकम् ॥ दन्तोष्ठपीडनैर्नेत्ररागैर्भूकुटिबन्धनैः । गण्डस्फुरणहस्ताग्रनिष्पेषैर्भूमिपाटनैः ॥ १३१ ॥ आयुधाकर्षण रक्ताकर्षणैर्वेगधावनैः । संप्रहारैः प्रहारैश्च गात्रकम्पाश्रुमोक्षणैः ।।१३२ ।। दारापहारभृत्याधिक्षेपप्रभृतिजन्मभिः । क्वापि कम्पमवाप्यन्त नरा धीरतरा अपि ।। १३३ ॥ ॥त्रिभिर्विशेषकम् ॥ गांभीर्यधैर्यशौण्डीर्यवैशारद्यैस्तथापरैः । अवदाततरैस्तैस्तैस्त्यागप्रभृतिभिर्गुणैः ।। १३४ ।। द्विड्वर्तिविक्रमनयाध्यवसायादिजन्मभिः । निसर्गभीरवोऽप्यासन् सद्यः संजातपौरुषाः ।। १३५ ।। ॥ युग्मम् ॥ १ चतुराः । २ भृगुपातः गिरिशिखरात्पतनं । ३ करतलपेषणैः । ४ शोणितकर्षणैः । ५ युद्धैः । ६ शौण्डीय शौर्यम् । ७ शत्रुवर्तिपराक्रमनयाध्यवसायादिजन्मभिः । RASHASRASIRSASARA कनकभीहरणम् । ॥४६ ।।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy