SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व त्रिषष्टि शलाकापुरुषचरिते सर्गः श्रीमघवचक्रवर्तिचरितम् । ॥ १६८॥ 1282828282828282828282828282 षष्ठः सर्गः।। (श्रीमघवचक्रवर्तिचरितम्। भरतेऽत्रैव नगरे महीमण्डलनामनि । वासुपूज्यस्य तीर्थेऽभून्नाम्नाऽमरपतिर्नृपः ॥१॥ अनाथानामेकनाथः पृथिवीनाथपुङ्गवः । सुसाधुरिव चारित्रे स न्यायेऽवहितोऽभवत् ॥२॥ अप्यसौ पुष्पवृन्तेन नाजघान जनं क्वचित् । केवलं पालयामास यत्नेन नवपुष्पवत् ॥३॥ कामार्थौ पादकण्टकवद् धर्मं तु किरीटवत् । अधरोत्तरभावेन स दधार विवेकवान् ॥ ४॥ अर्हन् देवो गुरुः साधुर्धर्मश्च करुणेति सः । मन्त्राक्षरमिवाध्यायदनुत्तरसुखप्रदम् ॥५॥ राज्यं रुजमिवान्येधुरुत्सृज्य स महायशाः । परिव्रज्यामुपादत्त दत्तविश्वाभयः सुधीः ॥६॥ स समितिप्राप्तजयो गुप्तिरक्षणतत्परः । विधिवत् पालयामास प्रव्रज्यां राज्यवच्चिरम् ॥७॥ अनवद्यैर्मूलगुणैः स उत्तरगुणैरपि । अधिकं शुशुभे दिव्यरत्नालङ्करणैरिव ॥८॥ चिरं व्रतं पालयित्वा कालधर्ममुपेत्य सः । ग्रैवेयके मध्यमेऽभूदहमिन्द्रः सुरोत्तमः ॥९॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । श्रावस्तीत्यस्ति नगरी नगरीणां गरीयसी ॥१०॥ गुणरत्नैरसंख्यातैः समुद्र इव मूर्तिमान् । समुद्रविजयस्तत्र विजयी समभून्नृपः ॥११॥ १ पुङ्गवः- श्रेष्ठः । २ अप्रमत्तः । ३ कामाथी पादकण्टक्वद् हेयौ, धर्मं तु किरीटवन्मुकुटवदुपादेयमित्यर्थः । ४ कामार्थावधरभावेन धर्म चोत्तरभावेनेत्यर्थः । ५ व्याधिवत् । 8282828282828282828282828285 पूर्वभवः। ॥१६८॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy