SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१६९॥ सर्गः श्रीमघवचक्रवर्तिचरितम्। 288888888888888888888888888 आनन्ददायकत्वेन भयदत्वेन चानिशम् । मित्राणामप्यमित्राणां हृदयान्नोत्ततार सः ॥१२॥ दोष्मतस्तस्य संग्रामेष्वात्मैवाजनि संमुखः । आकृष्टामलनिस्त्रिंशदर्पणप्रतिबिम्बितः ॥१३॥ प्रसह्य स्ववशीचक्रे सर्वा दिश इतीव सः । यशोऽलङ्करणं तासामावर्जनकृते ददौ ॥ १४ ॥ महीं गामिव गोपालः स जुगोप यथाविधि । अबाधया च समये करं दुग्धमिवाददे ॥१५॥ पुण्यलावण्यभद्राङ्गी भद्राणामेकमास्पदम् । सधर्मचारिणी तस्याभवद् भद्रेति नामतः ॥१६॥ धर्माविबाधया तस्य सुखं वैषयिकं तया । सहानुभवतः कालो व्यतीयाय कियानपि ॥१७॥ इतश्च ग्रैवेयकस्थो जीवोऽमरपतेः स तु । पूरयित्वा प्रकृष्टायुर्भद्राकुक्षाववातरत् ॥ १८ ॥ सुखसुप्ता तदा भद्रा महास्वप्नांश्चतुर्दश । स्वास्ये प्रविशतोऽद्राक्षीच्चक्रभृज्जन्मसूचकान् ॥ १९ ॥ काले चासूत सा सूनुमनूनं पुण्यलक्षणैः । सुवर्णवर्णं सार्धद्विचत्वारिंशद्धनून्नतम् ॥२०॥ पृथिव्यां मघवेवायं नूनं भावीति सान्वयाम् । चक्रेऽस्य मघवेत्याख्यां समुद्रविजयो नृपः ॥ २१ ॥ समुद्रवसनां सोऽनुसमुद्रविजयं जयी । अलम्भूष्णुरलञ्चक्रे द्यामवर्कमिवोडुपः ॥ २२ ॥ तस्यैकदास्त्रशालायां तेजःप्रसरभासुरम् । समुत्पेदे चक्ररत्नमिरम्मद इवाम्बुदे ॥ २३ ॥ 128282828282828282828282828 जन्म। १ मित्राणामानन्ददत्वेन । २ शत्रूणां भयदत्वेन । ३ आकृष्टो योऽमलो निस्त्रिंशः खड्गः स एव दर्पणस्तस्मिन् प्रतिबिम्बितः स राजा युद्धेषु स्वमेव पश्यति शत्रोरभावादित्यर्थः । ४ दिशो मां मा त्यजन्विति हेतोः ददावित्यर्थः । ५ सार्थकाम्। ६ समुद्रो वसनं वस्त्रं यस्यास्तां पृथ्वीमित्यर्थः । ७ समुद्रविजयस्य पश्चात् । ८ यथा सूर्यादनु चन्द्रः आकाशं भूषयति तथा ।९ मेघवह्नि तडिदिति यावत् । ॥१६९॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy