SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् । ॥१६७॥ 28282828282828282828282828 ज्ञात्वा तु मोक्षसमयं स्वामी संमेतमेत्य च । समं मुनिशतेनाष्टयुतेनानशनं व्यधात् ॥३५९ ॥ मासान्ते ज्येष्ठविशदपञ्चम्यां पुष्यगे विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥३६०॥ श्री धर्मस्वामिनस्तेषां श्रमणानां च तत्क्षणम् । चक्रुनिर्वाणमहिमोत्सवं शक्रादयः सुराः ॥३६१ ॥ अनन्तस्वामिनिर्वाणाद् धर्मनाथस्य निर्वृतिः । अजायत व्यतिक्रान्ते सागराणां चतुष्टये ॥ ३६२ ॥ कौमारेऽब्दलक्षे सार्धे राज्ये पञ्चाब्दलक्ष्यभूत् । सार्धा व्रते द्वयब्दलक्षीत्यब्दलक्षा दश प्रभोः ॥ ३६३ ॥ तैस्तैः पुरुषसिंहोऽपि सिंहवद्धिस्रकर्मभिः । पूर्णायुः कालतोऽगच्छत् षष्ठी नरकमेदिनीम् ॥३६४ ॥ कौमारेऽस्य त्र्यब्दशती मण्डलित्वे शतानि तु । सार्धानि द्वादशाब्दानां सप्तत्यब्दी तु दिग्जये ॥ ३६५ ॥ राज्ये तु नवलक्ष्यष्टानवतिश्च सहस्रकाः । शतानि त्रीण्यशीतिश्चेत्यब्दलक्षा दशायुषि ॥ ३६६ ॥ ततो बल: सप्तदशाब्दलक्षायुर्विनाऽनुजम् । कथञ्चिज्जीवितं दधे भ्रातृस्नेहवशंवदः ॥ ३६७॥ द्राक् सुदर्शनभृतोऽन्तदर्शनादाशोकविवशः सुदर्शनः । किर्तिसाधुनिकटेऽग्रहीद् व्रतं पूरितायुरपुनर्भवं ययौ ॥ ३६८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्री धर्मनाथ-पुरुषसिंह-सुदर्शन-निशुम्भचरितवर्णनो नाम पञ्चमः सर्गः। 28282828282828282828282828 प्रभोः निर्वाणम्। ॥१६७॥ १ सुदर्शननामकं चक्रं बिभर्ति तस्य अर्द्धचक्रिणोऽवसानविलोकनात् ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy