SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १३६ ॥ KAYAYAYAYDEDEREREREREDEREREI बद्धाः स्कन्धा गन्ध-शब्द-सौक्ष्म्य - स्थौल्याकृतिस्पृशः । अन्धकारा - ऽऽतपोद्योतभेदच्छायात्मका अपि ॥ २६७ ॥ कर्म - काय -मनो-भाषा - चेष्टितोच्छ्वासदायिनः । सुखदुःख - जीवितव्य - मृत्यूपग्रहकारिणः ॥ २६८ ॥ प्रत्येकमेकद्रव्याणि धर्माधर्मौ नभोऽपि च । अमूर्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ २६९ ॥ एकजीवपरिमाणसंख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्माधर्मौ व्यवस्थितौ ॥ २७० ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद् धर्मः पानीयमिव यादसाम् ॥ २७१ ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येष यथा छायाऽध्वयायिनाम् ॥ २७२ ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोकौ स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ २७३ ॥ लोकाकाशप्रदेशस्था भिन्ना: कालाणवस्तु ये । भावानां परिवर्ताय मुख्यकालः स उच्यते ॥ २७४ ॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ २७५ ॥ नवजीर्णादिरूपेण यदमी भुवनोदरे । पदार्थाः परिवर्तन्ते तत् कालस्यैव चेष्टितम् ॥ २७६ ॥ वर्तमाना अतीतत्वं भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिता: ॥ २७७ ॥ ॥ इति अजीवतत्त्वम् ॥ मनो-वचन कायानां यत् स्यात् कर्म स आश्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः ॥ २७८ ॥ ॥ इति आश्रवतत्त्वम् ॥ १ ज्ञानावरणीयादि कर्म । SAGREREREREREREDERERERERERER चतुर्थं पर्व चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम् । देशना । ॥ १३६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy