SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व त्रिषष्टिशलाका चतुर्थः पुरुषचरिते सर्गः श्रीअनन्तनाथजिनचरितम्। ॥१३७॥ 282828282828282828282828282 सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जरणादिह निर्जरा ॥ २७९ ॥ ॥इति संवर-निर्जरे तत्त्वे ॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवास्वातन्त्र्यकारणम् ॥ २८०॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्याज्ज्ञानावृत्त्यादिरष्टधा ॥ २८१ ॥ ज्ञान-दृष्टयावृती वेद्यं मोहनीयायुषी अपि । नाम-गोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥२८२ ॥ निष्कर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंऽशप्रकल्पनम् ॥ २८३ ॥ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुधाधयः । योगेन सह पञ्झैते विज्ञेया बन्धहेतवः ॥ २८४ ॥ ॥इति बन्धतत्त्वम् ॥ अभावे बन्धहेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां क्षये ॥२८५॥ सुरा-ऽसुर-नरेन्द्राणां यत् सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसंपदः ॥ २८६ ॥ ॥इति मोक्षतत्त्वम्॥ एवं तत्त्वानि जानानो जनो जगति जातुचित् । न निमज्जति संसारे वारिधाविव तारकः ॥२८७॥ एवं देशनया भर्तुः प्राज्यां पर्यव्रजञ्जनाः । भेजे हरिस्तु सम्यक्त्वं श्रावकत्वं च सुप्रभः ॥ २८८ ॥ व्यरंसीदादिपौरुष्यां देशनातो जगत्पतिः । यशास्तत्यादपीठस्थो गणभृद् देशनां व्यधात् ॥ २८९ ॥ १क्षयात् । २ अस्य बन्धस्य चत्वारः प्रकारा:- प्रकृतिः, स्थितिः, अनुभावः, प्रदेशश्चेति । ३ ज्ञानावरणादिः । ४ ज्ञानावरणम्, दर्शनावरणं च ।५ जघन्यतः उत्कृष्टतश्च कर्मणां कालनियमः सा स्थितिः । ६ कर्मणां विपाकोऽनुभावः । ७ बहवः । Y*XXXXXXXXXXXXXXXXXXXXYYY ॥१३७॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy