SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥१३५॥ सर्गः श्रीअनन्तनाथजिनचरितम् । R&R&R®R&R®R&R8282828282828 विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ २५५ ॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्या स्यातामान्तर्मुहूर्तिकौ ॥ २५६ ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः । तस्मादपूर्वकरणः क्षपकः शमकश्च सः ॥ २५७ ॥ यद्वादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिबादरोऽपि सः ॥ २५८ ॥ परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः ॥ २५९ ॥ लोभाभिधः संपरायः सूक्ष्मकिट्टीकृतो यतः । ससूक्ष्मसंपरायः स्यात् क्षपकः शमकोऽपि च ॥२६०॥ अथोपशान्तमोहः स्यान्मोहस्योमशमे सति । मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥ २६१ ॥ सयोगिकेवली घातिक्षयादुत्पन्नकेवलः।योगानां च क्षये जाते स एवायोगिकेवली इति ॥२६२॥॥जीवतत्त्वम्॥ अजीवाः स्युर्धर्माधर्मविहायःकालपुद्गलाः । जीवेन सह पञ्चापि द्रव्याण्येते निवेदिता : ॥ २६३ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रूपा अकारश्च ते मताः ॥ २६४ ॥ कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः ॥ २६५ ॥ पद्लाः स्युः स्पर्श-रस-गन्ध-वर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राबद्धाः किलाणवः ॥ २६६ ॥ 28282828282828282828282828 देशना। १क्षपकश्रेणिकः । २ उपशमश्रेणिकः । ३ इममपूर्वकरणं प्रविष्टानां साधूनां यद्यस्माद् बादरकपायाणां क्रोधादीनां परिणामा निवर्तन्तेऽतः स निवृत्तिवादरोऽपि कथ्यते । ४ विहाय:- आकाशास्तिकायः ५ प्रदेशसमूहरूपाः । &॥१३५॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy