SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 1198 11 पञ्चमः सर्गः । श्री सुपार्श्वनाथचरितम् । श्री सुपार्श्वजिनेन्द्रस्य पान्तु वो देशनागिरः । उद्वेलकेवलज्ञानसमुद्रस्येव वीचयः ॥ १ ॥ चरितं श्रीसुपार्श्वस्य वक्ष्येऽहं सप्तमार्हतः । कुबोधध्वान्तसुदिनमशेषाणां शरीरिणाम् ॥ २ ॥ धातकीखण्डद्वीपस्य प्राग्विदेहविशेषके । विजये रमणीयेऽस्ति नाम्ना क्षेमपुरी पुरी ॥ ३ ॥ तत्रासीज्जगदानन्दी नन्दिषेणो नरेश्वरः । दिनेश्वर इव श्रीमांस्तेजसामेकमास्पदम् ॥ ४॥ अशेषराज्यव्यापारे जागरुकस्य सर्वदा । तस्य प्रधान्यभूद् धर्मो दोर्दण्ड इव दक्षिणः ।। ५ । निम्नतः कण्टकीभूतान् जनतासुखहेतवे । तस्य कोपोऽपि धर्माय किं पुनः प्रस्तुताः क्रियाः ॥ ६ ॥ अहो ! आश्चर्यमनिशं स्मृतिगोचरतां गतः । श्रीवीतरागो भगवांस्तस्य हृच्छयतां ययौ ॥ ७ ॥ आर्त्तानामर्त्तिहरणे स शरण्यः सदाऽभवत् । स्मरातुरपरस्त्रीणां न कदापि कथञ्चन ॥ ८ ॥ कालेन गच्छता सोऽथ भवोद्विग्नो महामनाः । गत्वारिदमनाचार्यान्तिके दीक्षामुपाददे ॥ ९॥ स व्रतं पालयंस्तीक्ष्णं स्थानकैः कैश्चिदप्यथ । तीर्थकृन्नाम कर्मोपार्जयामास महामुनिः ॥ १० ॥ ततो विधायानशनं समये स महामतिः । मृत्वा ग्रैवेयके षष्ठे महर्द्धिरमरोऽभवत् ।। ११ ।। १ कुबोध एव ध्वांतस्तस्मिन् सुदिनं शुभदिवसः । २ सूर्यः । ३ हृदि शेत इति हृच्छयः तस्य भावस्तत्ता ताम् । * कामरूपताम् । + हा मुनिः । मृ । तृतीयं पर्व पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् । पूर्वभवः । ।। ७९ ।।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy