SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व चतुर्थः सर्गः अजितसगरचरितम् । ॥१३२॥ 828282828282828282828282828 रथ-द्विप-ध्वजाग्रस्थपाठीन-मकरादिभिः । विदधानः सयादस्कमिव व्योममहार्णवम् ॥४४॥ सप्तधाप्रक्षरद्दानजलासारविराजिभिः । मतङ्गजघटास्तोमैर्दुर्दिनं दर्शयन्निव ॥ ४५ ॥ उत्साहादुत्प्लवमानामिवाऽध्यारुरुक्षुभिः । पदातिभिः कोटिसङ्ख्यैस्तिरयन्नभितो भुवम् ॥ ४६॥ अविषह्यप्रतापेन, सर्वत्राऽकुण्ठशक्तिना । सेनान्येव पुरोगेण, चक्ररत्नेन राजितः ॥४७॥ सेनान्या दण्डरत्नेन, स्थलादिस्थपुटामपि । मतेनेव क्षेत्रमहीं, वसुधां कारयन् समाम् ॥ ४८॥ एकयोजनमानेन, प्रयाणेन दिने दिने । भद्रद्विप इवाऽध्वानमाक्रामन् गतिलीलया ॥४९॥ दिनैः कतिपयैः प्राच्या, तुल्यः प्राचीनबर्हिषा । गङ्गामुखैकतिलकं, मागधक्षेत्रमासदत् ॥५०॥ ॥नवभिः कुलकम् । अभ्रंलिहेभशालाभिर्विशालाभिरनेकशः । महागुहासोदराभिर्मन्दुराभिः सहस्रशः ॥५१॥ विमानमानिभिर्हर्मेघमन्यैश्च मण्डपैः । अट्टैः समानसंस्थानैरेकबिम्बकृतैरिव ॥५२॥ शृङ्गाटकादिरचनाराजिराजपथस्थितिम् । नवयोजनविस्तारं, दैर्घ्य द्वादशयोजनम् ॥५३॥ स्कन्धावारं चक्रभृतः, सगरस्याऽऽज्ञया ततः । चकार वर्धकीरत्नं, विनीताया इवाऽनुजम् ॥५४॥ ॥चतुर्भिः कलापकम् । तत्र पौषधशालायां, चक्रेऽष्टमतपस्ततः । मागधतीर्थकुमारं, कृत्वा मनसि भूपतिः ॥५५॥ स मुक्ताशेषनेपथ्यः, कुशसंस्तरसंश्रयः । मुक्तशस्त्रो ब्रह्मचारी, प्रतिजाग्रदवास्थित ॥५६॥ १ मत्स्यविशेषः। २ छादयन् । ३ विषमाम्। ४ इन्द्रेण। ५ अश्वशालाभिः । ६ समानाकृतिभिः । 828282828282828282828282828 सगरस्य दिग्विजयः। ॥१३२॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy