SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥६॥ श्रीहंसराजकथा॥ 器端器器器端器继器器樂器器端器聯聯發發發 अथ चमूलोकस्तु निजकुटुंबपरिणामदर्शनाद्यर्थ पश्चाद्वलितः. यथा यथा सेवकजनाः पश्चाद्वलन्ति तथा तथा राजा तु हृष्टः सन्नग्रे प्रयाति एवं सर्वे जनाः पश्चाद्वलिताः, एकेन छत्रधरेणैव युतो राजा महाटव्यां प्रवासं कृतवान्. ___अथ राज्ञा चिंतितमस्यामटव्यां बहवोऽनार्या भिल्ला वसन्ति, ततो मे वस्त्राभरणादि दृष्ट्वा ते लोभान्धा नूनं मां हनिष्यन्तीति ध्यात्वा स्वाभरणाद्युत्तार्य छत्रधरस्य समर्प्य स्वयमेकाक्येव यात्रार्थ चचाल, इत एको मृगस्तस्य पार्श्वत उत्प्लुत्य वृक्षघटायां प्रविष्टस्तेन दृष्टः, तत्पृष्ट चैकः किराता धनुर्धरः समागतः स राजानं पृच्छति " हे पुरुष ! इतो य एको मृगः पलायितः स कुत्र गतस्तत्कथय ?" तत् श्रुत्वा राजा चिन्तयति " यद्यहं सत्यं कथयिष्यामि तदा मृगस्य वधो भविष्यति, यदि चालीकं वक्ष्ये तदा मे व्रतभंगो भविष्यति, अतो बुद्धियुक्त्यैवैनं विप्रतास्यामि" इति विचिन्त्य स उवाच "भो किरात ! अहं मार्गभ्रष्टोत्रागतोऽस्मि." तत् श्रुत्वा व्याधेनोक्तम् “ अहम् एवं पृच्छामि यन्मृगः कुत्र गतः ? "राज्ञोक्तम् 'अहं हंसराजोऽस्मि 'भिल्लेनोक्तम् , 'अहं तव नाम न पृच्छामि, किंतु मृगः कुत्र गत इत्येव पृच्छामि.' राजोवाच "मम गृह राजपुरे वर्तते." रुष्टेन भिल्लेनोक्तं “रे मूढ ! यदहं पृत्छामि तस्यैवोत्तरं वद ? अन्यदन्यत् कि कथयसि ?" राज्ञोक्तं 'मे क्षत्रियकुलं वर्तते.' व्याधेनोक्तं ' किं त्वं बधिरोऽसि ? भूपो वदति 'यं मार्ग त्वं कथयिष्यसि तन्मार्गेऽहं गमिष्यामि.' मिल्लो वदति 'रे बधिर ! त्वं मम दृष्टिपथाद् दरीभव ?' इति कथयित्वा स व्याधो यथास्थानं गतः राजापि शनैः शनैरग्रेऽगच्छन् 染警號聯端端樂齡器端端端端端端继藥鱗斃器樂號跳號號號號聯發室 ॥६०॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy