SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् 'नोऽन्तः' स्यात् । पयांसि, अतिजरांसि, काष्टतनि । स्वरादित्येव- गोमन्ति ॥ लोवा ।१।४।६७॥ र-लाभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राक् 'नोन्तो वा' स्यात् । बहूर्जि, बहूर्जि । सुवल्ङ्गि, सुवल्गि । ल इति किम्? काष्टतक्षि । धुटामित्येव - सुफुल्लि ॥६७।। घुटि ११४६८॥ निमित्तविशेषोपादानं विना, आपादपरिसमाप्तेर्यत्कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ॥६८॥ अचः ११४६९॥ अञ्चतेर्धातो(डन्तस्य धुटः प्राक् ‘नोन्तो' घुटि स्यात् । प्राङ्, अतिप्राङ्,प्राञ्चौ । प्राञ्चि कुलानि ॥६९।। ऋदितः ।११४७०॥ ऋदुदितो धुडन्तस्य घुटि परे धुटः प्राक् स्वरात्परो 'नोन्तः' स्यात् । कुर्वन्, विद्वान्, गोमान् । घुटित्येव- गोमता ॥७॥ युजोऽसमासे ११४७१॥ "युजूपी योगे" इत्यस्याऽसमासे धुडन्तस्य धुटः प्राक् घुटि 'नोन्तः' स्यात् । युङ्, युनी । युजि कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युज्र इति किम् ? “युजिंच समाधौ" युजमापना मुनयः ॥७१॥ अनडुहः सौ ११४७२॥ अनडुहो धुडन्तस्य धुटः प्राक् सौ परे ‘नोन्तः' स्यात् । अनड्वान्, प्रियानड्वान् ॥७२॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy