SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीसिदहेमचन्द्रशब्दानुशासनम् - अनकारान्तस्य नपुंसकस्य 'स्यमोलुप्' स्यात् । कर्तृ, पयः ॥५९॥ जरसो वा १४६०॥ जरसन्तस्य नपुंसकस्य ‘स्यमोर्लुब् वा' स्यात् । अतिजरः, अतिजरसम्, अतिजरम् ॥६०॥ नामिनो लुग वा ११४६१॥ नाम्यन्तस्य नपुंसकस्य ‘स्यमोलुंग वा' स्यात् । हे वारे !, हे वारि ! प्रियतिस, प्रियत्रि कुतम् ॥६१॥ वाऽन्यतः पुमांष्टादौ स्वरे ॥१॥४॥२॥ अन्यतो- विशेष्यवशानपुंसको नाम्यन्तष्टादी स्यरे परे 'पुंवद् वा' स्यात् । ग्रामण्या ग्रामणिना कुलेन; कर्बोः कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय । टादाविति किम्? शुचिनी कुले । नपुंसक इत्येव कल्याण्यै स्त्रियै ।।६२॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् ।१४।६३॥ एषां नपुंसकानां नाम्यन्तानामन्तस्य टादी स्वरे परे अन् स्यात् । दना, अतिदना । अस्प्ना, अत्यस्ना । सक्ना, अतिसक्ना । अक्ष्णा, अत्यक्ष्णा ।।६३॥ ___ अनामस्वरे नोऽन्तः 1१।४।६४॥ नाम्यन्तस्य नपुंसकस्याऽऽम्वर्जे स्यादी स्वरे परे 'नोऽन्तः' स्यात् । वारिणी, वारिणः । कर्तृणी, कर्तृणः प्रियतिसृणः । अनामिति किम् ? वारीणाम् । स्यर इति किम् ? हे वारे । । स्यादावित्येव-तीम्बुरवं घूर्णम् ॥६४॥ स्वराच्छौ ।१४॥६५॥ शी परे स्वरान्तानपुंसकात्परो 'नोऽन्तः' स्यात् । कुण्डानि । स्वरादिति किम् ? चत्वारि ॥६५॥ भुटां प्राक् ॥१॥४॥६६॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy