SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पुंसोः पुमन्स् | १|४|७३ ॥ पुंसोः 'पुमन्स्' घुटि स्यात् । पुमान्, पुमांसी, पुमांसः । प्रियपुमान्, प्रियपुमांसि ॥७३॥ ३४ ओत औः | १|४|७४॥ , ओतो घुटि परे 'औ' स्यात् । गीः गावौ द्यौः, द्यावी, प्रियद्यावी । ओत इति किम् ? चित्रगुः ॥७४ || आ अम् - शसोडता । १।४।७५ ॥ ओतोऽम् - शसोरता सह 'आ' स्यात् । गाम् । सुगाम् । गाः। द्याम् । अतिद्याम् । द्याः । सुधाः ॥ ७५ ॥ पथिन् - मथिनृभुक्षः सौ |१|४|७६ ॥ एषां नान्तानामन्तस्य सौ परे 'आः' स्यात् । पन्थाः, हे पन्थाः ! | मन्याः, हे मन्थाः ! । ऋभुक्षाः, हे ऋभुक्षाः ! । नान्तनिर्देशादिह न स्यात् पन्थानमैच्छत् पथीः ॥७६ || एः |१|४|७७ ॥ ? पथ्यादीनां नान्तानामितो घुटि परे 'आः' स्यात् । पन्याः पन्थानौ, पन्थानः, पन्थानम्; सुपन्थानि कुलानि । मन्याः । ऋभुक्षाः । नान्तनिर्देशाद् - एरभावाच्चेह न स्यात् - पथ्यौ, पथ्यः ॥७७॥ योन्थ |१|४|७८ ॥ पथिन् - मथिनोर्नान्तयोस्थस्य घुटि परे 'न्यू' स्यात् । तथैवोदाहृतम् ॥७८॥ इन् डीस्वरे लुक् | १|४|७९॥ पथ्यादीनां नान्तानां ड्यामघुट्स्वरादौ च स्यादौ परे 'इन् लुक्' स्यात् । सुपथी स्त्री कुले वा । पथः । सुमथी स्त्रीकुले वा । मथः । अनुभुक्षी सेना कुले वा ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy