SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३१ संख्या-साय-वेरहस्याऽहन डौ वा ॥१४॥५०॥ संख्यावाचिभ्यः साय-विभ्यां च परस्याऽहनस्य डी परे-'ऽहंन् वा' स्यात् । व्यहनि, व्यह्नि, व्यहे । सायाहनि, सायाहि, सायाहे । व्यहनि, व्यहि, व्यह् ॥५०॥ निय आम् 191४५१॥ नियः परस्य 'डेराम्' स्यात् । नियाम, ग्रामण्याम् ॥५१॥ वाष्टन आः स्यादौ ११४१५२॥ अष्टनः स्यादौ परे ‘आ वा' स्यात् । अष्टाभिः, अष्टभिः । प्रियाष्टाः, प्रिया ॥ अष्ट और्जस-शसोः ११४॥५३॥ अष्टनः कृताऽऽत्वस्य ‘जस्-शसोरौः' स्यात् । अष्टी, अष्टौ ॥५३॥ डति-ष्णः संख्याया लुप् ।१।४।५४॥ डति-ष-नान्तानां संख्यानाम् ‘जस्-शसोर्लुप्' स्यात् । कति, कति । षट्, षट् । पञ्च, पञ्च ॥५४॥ नपुंसकस्य शिः ॥१॥४॥५५॥ नपुंसकस्य जस्-शसोः 'शिः' स्यात् । कुण्डानि, पयांसि ॥५५॥ ___ औरीः ११४५६॥ नपुंसकस्य 'औरीः' स्यात् । कुण्डे । पयसी ॥५६॥ अतः स्यमोऽम् ११४१५७॥ अदन्तस्य नपुंसकस्य ‘स्यमोरम्' स्यात् । कुण्डम्, हे कुण्ड ! ॥५७॥ पचतोऽन्यादेरनेकतरस्य दः १४५८॥ पञ्चपरिमाणस्य नपुंसकस्याऽन्यादेः 'स्यमोदः' स्यात्, एकतरवर्जम् । अन्यत्, अन्यतरत, इतरत्, कतरत, कतमत् । अनेकतरस्येति किम् ? एकतरम् ॥ अनतो लुप् ।१।४५९॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy