SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पदान्तस्थस्य रस्य ख्यागि परे 'विसर्ग एव' स्यात् । कः ख्यातः । नमः ख्यात्रे ॥५४॥ शिट्यघोषात् । १।३।५५॥ अघोषात् परे शिटि परतः पदान्तस्थस्य रस्य 'विसर्ग एव' स्यात् । पुरुषः त्सरुकः, सर्पिः प्साति, वासः क्षौमम्, अद्भिः प्सातम् ॥५५ ॥ व्यत्यये लुग् वा | १|३|५६ ॥ शिटः परोऽघोष इति व्यत्ययस्तस्मिन्सति पदान्तस्थस्य 'रस्य लुग् वा स्यात् । चक्षुश्च्योतति, चक्षुः श्च्योतति, चक्षुश्श्च्योतति ॥५६॥ अरोः सुपि रः |१|३|५७ ॥ रोरन्यस्य रस्य सुपि परे 'र एव' स्यात् । गीर्षु, धूर्षु । अरोरिति किम् ? पयस्सु ॥५७॥ वाऽहर्पत्यादयः 191३1५८ ॥ अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अहर्पतिः, अहः पतिः, गीर्पतिः, गीः पतिः प्रचेता राजन् ! प्रचेतो राजन् ! ॥५८॥ शिट्याद्यस्य द्वितीयो वा |१| ३|५९ ॥ " प्रथमस्य शिटि परे 'द्वितीयो वा' स्यात् । ख्षीरम् क्षीरम् । अफ्सराः, अप्सराः ||५९|| तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च- टवर्गों |१|३|६०॥ तवर्गस्य श-चवर्गाभ्यां ष-टवर्गाभ्यां च योगे यथासंख्यम् 'चवर्ग- टवर्गी' स्याताम् । तच्शेते, भवाञ्शेते, तच्चारु, तज्जकारेण, पेटथ, पूष्णः, तट्टकारः, तण्णकारेण, ईट्टे ॥६०॥ सस्य श षौ |१|३|६१ ॥ सस्य श्चवर्ग-ष्टवर्गाभ्यां योगे यथासंख्यम् 'श-षी' स्याताम् । चवर्गेण - श्च्यो
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy