SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २१ स लाति । अनग्नञ्समास इति किम् ? एषकः कृती, सको याति, अनेषो याति, असो वाति ||४६|| व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा । १।३।४७॥ व्यञ्जनात् परस्य पंचमस्याऽन्तस्थायाश्च सरूपे वर्णे परे 'लुग् वा' स्यात् । क्रुञ्चो ड्डौ -कुड्डौ, क्रुड्ड्डौ । आदित्यो देवताऽस्य - आदित्यः, आदित्य्यः । सरूप इति किम् ? वर्ण्यते ॥ ४७ ॥ घुटो धुटि स्वे वा | १|३|४८ ॥ व्यञ्जनात्परस्य धुटो धुटि स्वे परे 'लुग् वा' स्यात् । शिण्टि, शिण्डि । स्व इति किम् ? तप्त, दर्ता ॥ ४८ ॥ तृतीयस्तृतीय- चतुर्थे ॥१३॥४९॥ तृतीये चतुर्थे च परे 'धुटस्तृतीयः' स्यात् । मज्जति, दोग्धा ||४९ || अघोषे प्रथमोऽशिटः |१|३|५० ॥ अघोषे परे शिड्रर्जस्य 'धुटः प्रथमः' स्यात् । वाक्पूता । अशिट इति किम् ? पयस्सु ॥५०॥ विरामे वा । १।३।५१॥ विरामस्थस्याऽशिटो 'धुटः प्रथमो वा' स्यात् । वाक्, वाग् ॥५१॥ न सन्धिः |१|३|५२॥ उक्तो वक्ष्यमाणश्च 'सन्धिर्विरामे न स्यात् । दधि अत्र, तद् लुनाति ॥५२॥ रः पदान्ते विसर्गस्तयोः |१|३|५३॥ पदान्तस्थस्य रस्य तयोर्विरामाऽघोषयोर्विसर्गः' स्यात् । वृक्षः, स्वः, कः कृती । पदान्त इति किम् ? इर्ते ॥५३॥ ख्यागि |१|३|५४ ॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy