SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २३ तति, वृश्चति । षेण - दोष्षु । टवर्गेण-पाक्षि ॥६१॥ न शात् ११३१६२॥ शात् परस्य तवर्गस्य 'चवर्गो न' स्यात् । अनाति, प्रश्नः ॥६२।। पदान्ताट्टवर्गादनाम-नगरी-नवतेः ।१।३।६३॥ पदान्तस्थावर्गात् परस्य नाम्-नगरी-नवतिवर्जस्य तवर्गस्य सस्य च 'टवर्गषौ न' स्याताम् । षण्नयम्, षण्नयाः, षट्सु । अनाम्-नगरी-नवतेरिति किम् ? षण्णाम्, षण्णगरी, षण्णवतिः ॥३॥ षि तवर्गस्य ।१३।६४॥ पदान्तस्थस्य तवर्गस्य थे परे ‘टवर्गो न' स्यात् । तीर्थकृत् षोडशः शान्तिः ॥६४॥ लि लौ ।१३।६५॥ पदान्तस्थस्य तवर्गस्य ले परे 'लौ' स्याताम् । तल्लूनम्, भवाल्लुनाति ॥६५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्योपज्ञशब्दानुशासन लघुवृत्ती प्रथमस्याध्यायस्य तृतीयपादः समाप्तः ॥१३॥ चक्रे श्रीमूलराजेन, नवः कोऽपि यशोऽर्णवः । परकीर्तिस्रवन्तीनां, न प्रवेशमदत्त यः ॥३॥ ----xox------
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy