SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अपदान्तस्थानां म- नानां, धुटि वर्गे परे 'निमित्तस्यैवान्त्यो' ऽनु स्यात् । गन्ता, शङ्किता, कम्पिता । धुडितिकिम् ? आहन्महे । धुड्वर्ग इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् करोति ॥ ३९ ॥ २० शिड्ढे ऽनुस्वारः । १।३।४० ॥ अपदान्तस्थानां म्नां शिटि हे च परे ऽनुस्वारोऽनु स्यात् । पुंसि, दंशः, बृंहणम् ||४०|| रो रे लुग् दीर्घश्चाऽदिदुतः | १|३|४१ || रस्य रे परेऽनु 'लुक्' स्यात्, 'अ- इ - ऊनाञ्च दीर्घः' । पुना रात्रिः, अग्नी रथेन, पटू राजा । अनु इत्येव - अहोरूपम् ॥ ४१ ॥ ढस्तडूढे |१|३|४२॥ तन्निमित्ते ढे परे ढस्याऽनु 'लुक' स्यात्, दीर्घश्चादिदुतः । माढिः लीढम् गूढम् । तड्ढ इति किम् ? मधुलिड् ढौकते ॥४२॥ सहि- वहेरोच्चाऽवर्णस्य |१ |३|४३ ॥ सहि-वह्योस्य तड्ढे परेऽनु' लुक्' स्यात्, ओच्चाऽवर्णस्य । सोढा, वोढा, उदवोढाम् ||४३|| उदः स्था-स्तम्भः सः | १|३|४४ ॥ उदः परयोः स्था-स्तम्भोः सस्य 'लुक्' स्यात् । उत्थाता, उत्तम्भिता ॥४४॥ तदः सेः स्वरे पादार्था |१|३|४५ || तदः परस्यः सेः स्वरे परे 'लुक् स्यात् सा चेत् पादपूरणी स्यात् । सैष दाशरथी रामः, सैष राजा युधिष्ठिरः । पादार्था इति किम् ? स एष भरतो राजा ॥ ४५ ॥ एतदश्च व्यञ्जनेऽनग् - नञ्समासे |१| ३ | ४६ ॥ एतदस्तदश्च परस्य सेर्व्यञ्जने परे 'लुक्' स्यात्, अकि नञ्समासे न । एष दत्ते
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy