SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २४० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् किम् ? स्तवानि । अद्वेरिति किम् ? जुहोति ॥५९॥ वोर्णोः ।४।३।६०॥ ऊोरद्युक्तस्य व्यजनादौ विति ‘और्वा' स्यात् । प्रोणति, प्रोर्णोति । अद्वेरित्येव- प्रोर्णोनोति ॥६०॥ न दि-स्योः ४२६१॥ 'ऊोर्दि-स्योः परयोरौन' स्यात् । प्रौर्णोत्, प्रौर्णोः ॥६१॥ तृहः श्नादीत् ।४।३।६२॥ तृहेः श्नात् परो व्यञ्जनादौ विति परे 'ईत्' स्यात् । तृणेढि ॥६२।। ब्रूतः परादिः ।४।३।६३॥ ब्रुव ऊतः परो व्यञ्जनादौ विति ‘परादिरीत्' स्यात् । ब्रवीति । ऊत इति किम् ? आत्य ॥६३॥ यङ्-तु-रु-स्तोर्बहुलम् ।४।३।६४॥ यङ्लुबन्तात् तु-रु-स्तुभ्यश्च परो व्यजनादी विति 'ईद् बहुलं परादिः' स्यात् । क्वचिद्वा- बोभवीति, बोभोति; क्वचित्र - वर्वति; तवीति, तौति; रवीति, रौति; स्तवीति, स्तौति । अद्वेरित्येव- तुतोय, तुष्टोय ॥६४।। सः सिजस्तेर्दि-स्योः ४॥३॥६५॥ सिजन्ताद् धातोरस्तेश्च सन्तात् परो दि-स्योः परयोः 'परादिरीत् स्यात् । अकार्षीत्, अकार्षीः; आसीत्, आसीः । स इति किम् ? अदात् ॥६५॥ पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट् ॥४॥३॥६६॥ एभ्यः परस्य 'सिचः परस्मैपदे लुप् स्यात्, लुब्योगे न चेट्' । अपात्, अगात्, अध्यगात्, अदात्, अधात्, अभूत, अस्थात् । परस्मै इति किम् ? अपासत पयांसि तैः ॥६६॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy