SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २३३ संयोगाद् य ऋत्, तदन्तस्याऽर्तेश्च क्ये यडि आशीर्ये च 'गुणः' स्यात् । स्मर्यते, स्वर्यते, अर्यते; सास्मर्यते, सास्वर्यते, अरार्यते; स्मर्यात्, अर्यात् ॥ न वृद्धिश्चाऽविति क्डिल्लोपे ।४।३।११॥ अविति प्रत्यये यः कितो तिश्च लोपस्तस्मिन् सति ‘गुणो वृद्धिश्च न' स्यात् । चेच्यः, मरीमृजः ॥११॥ भवतेः सिजुलुपि ।४।३.१२॥ भुवः सिज्लुपि 'गुणो न' स्यात् । अभूत् । सिज्लुपीति किम् ? व्यत्यभविष्ट ॥१२॥ सूतेः पञ्चम्याम् ।४।३।१३॥ सूतेः पञ्चम्याम् 'गुणो न' स्यात् । सुवै ॥१३॥ ड्युक्तोपान्त्यस्य शिति स्वरे ।४।३।१४॥ युक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादी शिति 'गुणो न' स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥ द्विणोरप्पिति -यौ ।४।३।१५॥ होरिणश्च नामिनः स्वरादावपिति अविति च शिति यथासंख्यम् 'व्यौ' स्याताम् । जुह्वति, यन्तु । अग्वितीति किम् ? अजुहः, अयानि ॥१५॥ इको वा ।४।३॥१६॥ इकः स्वरादावविति शिति 'य् वा' स्यात् । अधियन्ति, अधीयन्ति ॥१६॥ कुटादेर्डिद्वदणित् ।४॥३॥१७॥ कुटादेः परो णिद्वर्जप्रत्ययो 'द्वित्' स्यात् । कुटिता, गुता । अञ्णिदिति किम् ? उत्कोटः, उच्चुकोट ॥१७॥ विजेरिट् ।४॥३॥१८॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy