SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् उ-श्नोः ४॥३॥२॥ धातोरुश्नोः प्रत्यययोरक्छिति 'गुणः' स्यात् । तनोति, सुनोति ॥२॥ पुस-पौ ॥४॥३॥३॥ नाम्यन्तस्य धातोः पुसि पौ च 'गुणः' स्यात् । ऐयरुः, अर्पयति ॥३॥ लघोरुपान्त्यस्य ॥४॥३॥४॥ धातोरुपान्त्यस्य नामिनो लघोरक्डिति 'गुणः' स्यात् । भेत्ता । लघोरिति किम् ? ईहते । उपान्त्यस्येति किम् ? भिनति ॥४॥ मिदः श्ये ४३१५॥ मिदेरुपान्त्यस्य श्ये 'गुणः' स्यात् । मेधति ॥५॥ जागुः किति ।४।३।६॥ जागुः किति 'गुणः' स्यात् । जागरितः ॥६॥ ऋवर्ण-दृशोऽडि ॥४॥३७॥ ऋवर्णान्तानां दृशेश्चाऽङि परे ‘गुणः' स्यात् । आरत्, असरत्, अजरत्, अदर्शत् ॥७॥ स्कृच्छ्तोऽकि परोक्षायाम् ॥४॥३८॥ स्कृच्छोः ऋदन्तानां च नामिनः परोक्षायाम् 'गुणः' स्यात्, न तु कोपलक्षितायां क्वसु-कानोः । सञ्चस्करुः, आनछुः, तेरुः । अकीति किम् ? सधस्कृवान् ॥८॥ संयोगादृदः ॥४॥३॥९॥ संयोगात् परो य ऋत, तदन्तस्याऽर्तेश्च परोक्षायामकि 'गुणः' स्यात् । सस्मरुः, सस्वरुः, आरुः । संयोगादिति किम् ? चक्रुः ॥९॥ क्य-यडाऽऽशीयें ।४।३॥१०॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy