SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २३१ आशिषि तु-दोस्तातङ् ।४।२।११९॥ 'आशीरथयोस्तुह्योस्तातङ् वा' स्यात् । जीवतात्, जीवतु भवान्; जीवतात्, जीव त्वम्; नन्दतात्, नन्द त्वम् । आशिषीति किम् ? जीवतु ॥ आतो णव औः ।४।२।१२०॥ आतः परस्य ‘णव औः' स्यात् । पपौ ॥१२०॥ आतामाते-आथामाथे आदिः ।४।२।१२१॥ आत् परेषामेषाम् ‘आत इ.' स्यात् । पचेताम्, पचेते, पचेयाम्, पचेथे । आदिति किम् ? मिमाताम् ॥१२१॥ यः सप्तम्याः ।४।२।१२२॥ आत् परस्य 'सप्तम्या याशब्दस्यः' स्यात् । पचेत्, पचेः ॥१२२॥ याम्-युसोरियमियुसौ ।४।२।१२३॥ 'आत् परयोर्याम्-युसोर्ययासंख्यमियमियुसौ' स्याताम् । पचेयम्, पचेयुः ।। [१२३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिखोमचन्द्राभिधानस्वोपजशदानुशासन लघुवृत्ती चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः ॥१२॥ श्रीभीमपृतनोत्खात- रजोभिरिभूभुजाम् । अहो ! चित्रमवर्धन्त, ललाटे जलबिन्दवः ॥१४॥ तृतीयः पादः नामिनो गुणोऽक्छिति ४॥३॥१॥ नाम्यन्तस्य धातोः द्विर्जे प्रत्यये 'गुणः' स्यात् । चेता । अक्कितीति किम् ? युतः ॥७॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy