SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीसिद्रहमचन्द्रशब्दानुशासनम् - लघुनि धात्वक्षरे परे सनीव कार्य स्यात्' । अचीकरत्, अजीजवत्, अशिश्रवत् । लघुनीति किम् ? अततक्षत् । णावित्येव- अचकमत । असमानलोप इति किम् ? अचकथत् ॥६३॥ लघोर्दीर्घोऽस्वरादेः ।४।११६४॥ अस्वरादेरसमानलोपे उपरे णौ द्वित्वे 'पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घः' स्यात् । अचीकरत् । लघोरिति किम् ? अचिक्वणत् । अस्वरादेरिति किम् ? औण्णुनवत् ॥६४॥ स्मृ-दृ-त्वर-प्रथ-प्रद-स्तू-स्पशेरः ।४।११६५॥ एषामसमानलोपे उपरे णौ द्वित्वे 'पूर्वस्याऽत्' स्यात् । असस्मरत्, अददरत्, अतत्वरत, अपप्रथत्, अमम्रदत्, अतस्तरत्, अपस्पशत् ॥६५॥ वा वेष्ट-चेष्टः ।४।१६६॥ अनयोरसमानलोपे उपरे णौ द्वित्वे 'पूर्वस्याऽद् वा' स्यात् । अववेष्टत्, अविवेष्टत्; अचचेष्टत्, अचिचेटत् ॥६६॥ ई च गणः ।४।११६७॥ 'गणे:परे णौ द्वित्वे पूर्वस्य ईः, अश्च' स्यात् । अजीगणत्, अजगणत् ॥ अस्याऽऽदेराः परोक्षायाम् ।४।१।६८॥ अस्यां द्वित्वे 'पूर्वस्याऽऽदेरत आः' स्यात् । आदुः, आरतुः । अस्येति किम् ? ईयुः । आदेरिति किम् ? पपाच ॥६८॥ अनातो नचान्त ऋदायशौ-संयोगस्य ।४।११६९॥ ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे 'पूर्वस्याऽऽदेरास्थानादन्यस्याऽस्य आः स्यात्, कृताऽऽतो नोऽन्तश्च' । आनृधुः, आनशे, आनन्न । ऋदादीति किम् ? आर । अनात इति किम् ? आउछ ॥६९॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy