SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ - १७४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ निह्नवे ज्ञः ।३।३।६८॥ निह्नवः- अपलापः, तद्वृत्तेजः 'कर्तर्यात्मनेपदम्' स्यात् । शतमपजानीते ॥ सं-प्रतेरस्मृतौ ।३।३।६९॥ स्मृतेरन्यार्थात् संप्रतिभ्यां पराज्ज्ञः 'कर्तर्यात्मनेपदम्' स्यात् । शतं संजानीते, शतं प्रतिजानीते । अस्मृताविति किम् ? मातुः संजानाति ॥६९।। अननोः सनः ।३।३७०॥ सन्नन्ताज्ज्ञः 'कर्तर्यात्मनेपदम्' स्यात्, न त्वनोः परात् । धर्म जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ॥७०।। श्रुवोऽनाङ्-प्रतेः ।३।३७१॥ सन्नन्ताच्छृणोतेः 'कर्तर्यात्मनेपदम्' स्यात्, न त्वाप्रतिभ्यां परात् । शुश्रूषते गुरून् । अनामतेरिति किम् ? आशुश्रूषति प्रतिशुश्रूषति ॥७१॥ स्मृ-दृशः ।३॥३॥७२॥ आभ्यां सन्नन्ताभ्याम् ‘कर्तर्यात्मनेपदम्' स्यात् । सुस्मूर्षते, दिदृक्षते ॥७२॥ शको जिज्ञासायाम् ।३।३।७३॥ शको ज्ञानानुसंहितार्थात् सन्नन्तात् 'कर्तर्यात्मनेपदम्' स्यात् । विद्याः शिक्षते । जिज्ञासायामिति किम् ? शिक्षति ॥७३॥ प्राग्वत् ॥३॥३७॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् 'कर्तर्यात्मनेपदम्' स्यात् । शिशयिषते, अश्वेन संचिचरिषते ॥७४॥ आमः कृगः ।३।३।७५॥ आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव 'कर्तर्यात्मनेपदम्' स्यात्, भवति न भवति चेति विधिनिषेधावतिदिश्यते । ईहाञ्चक्रे,
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy