SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १७३ पन्थाः कर्ता यस्य तत्र - सुनमुपतिष्ठते पन्थाः । मन्त्रः करणं यस्य – ऐन्या गार्हपत्यमुपतिष्ठते ॥६०॥ वा लिप्सायाम् ।३।३।६१॥ उपात् स्यो लिप्सायां गम्यमानायाम् ‘कर्तर्यात्मनेपदं वा' स्याद् । भिक्षुतृकुलमुपतिष्ठते, उपतिष्ठति वा ॥६१॥ उदोऽनर्वहे ।।३।६२॥ अनूळ या चेष्टा तदर्याद् उत्पूर्वात् स्थः 'कर्तर्यात्मनेपदम्' स्यात् । मुक्तावृत्तिष्ठते । अनूति किम् ? आसनादुत्तिष्ठति । इहति किम् ? ग्रामाच्छतमुत्तिछति ॥६२॥ सं-वि-प्रा-ऽवात् ।३।३।६३॥ एभ्यः परात् स्थः 'कर्तर्यात्मनेपदम्' स्यात् । संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते ॥३॥ जीप्सा-स्थेये ॥३॥३॥६॥ ज्ञीप्सा-आत्मप्रकाशनम्, स्येयः-सभ्यः, जीप्सायां स्थेयविषयार्थे च वर्तमानात् स्थः 'कर्तर्यात्मनेपदम् स्यात् । तिष्ठते कन्या छात्रेभ्यः, त्वयि तिष्ठते विवादः ॥६४॥ प्रतिज्ञायाम् ॥३॥३॥६५॥ अभ्युपगमार्थात् स्थः 'कर्त्तर्यात्मनेपदम्' स्यात् । नित्यं शब्दमातिष्ठते ॥६५॥ समो गिरः ॥२३॥६६॥ संपूर्वाद् गिरः प्रतिज्ञार्थात् 'कर्तर्यात्मनेपदम् स्यात् । स्याद्वादं सङ्गिरते ॥६६॥ अवात् ३३३१६७॥ अवाद् गिरः 'कर्तर्यात्मनेपदम्' स्यात् । अवगिरते ॥६७॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy