SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १७५ बिभयाञ्चकार । कृग इति किम् ? ईक्षामास ॥७५॥ गन्धना-ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे ।३।३१७६॥ एतदर्थात् कृगः 'कर्तर्यात्मनेपदम्' स्यात् । गन्धनम्- द्रोहेण परदोषोद्घाटनम्, उत्कुरुते । अवक्षेपः- कुत्सनम्, दुर्वृत्तानवकुरुते । सेवा - महामात्रानुपकुरुते । साहसम्- अविमृश्य प्रवृत्तिः, परदारान् प्रकुरुते । प्रतियल:- गुणान्तराऽऽधानम्, एधोदकस्योपस्कुरुते । प्रकथनम्- जनवादान् प्रकुरुते । उपयोगः- धर्मादी विनियोगः, शतं प्रकुरुते ॥७६।। अधेः प्रसहने ३३३७७॥ अधेः परात् कृगः प्रसहनार्थात् 'कर्तर्यात्मनेपदम्' स्यात् । प्रसहनम्पराभिभवः परेणापराजयो वा, तं हाऽधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ॥७७॥ दीप्ति-ज्ञान-यत्न-विमत्युपसंभाषोपमन्त्रणे वदः ।३।३।७८॥ एष्वर्थेषु गम्येषु वदः 'कर्तर्यात्मनेपदम्' स्यात् । दीप्तिः- भासनम्, वदते विद्वान् स्याद्वादे । ज्ञाने - वदते धीमांस्तत्त्वार्थे । यले - तपसि वदते । नानामतिर्विमतिः- धर्मे विवदन्ते । उपसंभाषा- उपसान्त्वनम्, कर्मकरानुपवदते । उपमन्त्रणम्- रहस्युपच्छन्दनम्, कुलभार्यामुपवदते ॥७८॥ व्यक्तवाचां सहोक्तौ ।३।३७९॥ व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोचारणार्थाद् वदः 'कर्तर्यात्मनेपदम्' स्यात् । संप्रवदन्ते ग्राम्याः । व्यक्तवाचामिति किम् ? संप्रवदन्ति शुकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ॥७९॥ विवादे वा ।३।३।८०॥ विरुद्धार्थो वादो विवादः, व्यक्तवाचां विवादरूपसहोक्त्यर्याद् वदः 'कर्त्तत्मिनेपदं वा' स्यात् । विप्रवदन्ते विप्रवदन्ति क मौहूर्ताः । विवाद इति ३.0 - 0 82 २ये...
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy