SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७२ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् ॥ % 3A स्वाऽऽस्यप्रसार - विकासाभ्यामन्यार्थाद् आपूर्वाद् दागः 'कर्तर्यात्मनेपदम्' स्यात् । विद्यामादत्ते । स्वास्यादिवर्जनं किम् ? उष्ट्रो मुखं व्याददाति, कूलं व्याददाति ॥५३॥ नु-प्रच्छः ।३।३।५४॥ आङ्पूर्वान्नौतेः प्रच्छेश्च 'कर्तर्यात्मनेपदम्' स्यात् । आनुते शृगालः, आपृच्छते गुरून् ॥५४॥ गमेः क्षान्तौ ॥३॥३॥५५॥ कालहरणार्थाद् गमयतेरापूर्वात् 'कर्तर्यात्मनेपदम्' स्यात् । आगमयते गुरुम् - कञ्चित् कालं प्रतीक्षते । क्षान्ताविति किम् ? विद्यामागमयति ॥५५।। हः स्प. ३३३॥५६॥ आपूर्वाद् हयतेः स्पर्द्ध गम्ये 'कर्तर्यात्मनेपदम्' स्यात् । मल्लो मल्लमाह्वयते । स्पर्द्ध इति किम् ? गामाह्वयति ॥५६॥ सं-नि-वेः ।३।३१५७॥ एभ्यो ह्वयतेः 'कर्तर्यात्मनेपदम्' स्यात् । संह्रयते, नियते, विह्वयते ॥५७॥ उपात् ।३।३।५८॥ उपाद् हयतेः 'कर्तर्यात्मनेपदम्' स्यात् । उपह्वयते ॥५८॥ यमः स्वीकारे ।३।३१५९॥ उपाद् यमः स्वीकारार्थात् 'कर्तर्यात्मनेपदम्' स्यात् । कन्यामुपयच्छते, उपायंस्त महास्त्राणि । विनिर्देशः किम् ? शाटकानुपयच्छति ।।५९॥ देवाऽर्चा-मैत्री-सङ्गम-पथिकर्तृक-मन्त्रकरणे स्थः ।३।३।६०॥ एतदर्याद् उपपूर्वात् तिष्ठतेः 'कर्तर्यात्मनेपदम् स्यात् । देवार्चा -जिनेन्द्रमुपतिष्ठते । मैत्री – रथिकानुपतिष्ठते । सङ्गमः - यमुना गङ्गामुपतिष्ठते ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy