SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ अन्यादृक्षः; त्यादृक्, त्यादृशः, त्यादृक्षः अस्मादृक्, अस्मादृशः अस्मादृक्षः ॥ इदं - किमी की । ३।२।१५३॥ , दृगादावुत्तरपदे 'इदम्-किमी यथासङ्ख्यम् ईत्-कीरूपी' स्याताम् । ईदृक्, ईदृशः, ईदृक्षः कीदृक् कीदृशः कीदृक्षः ||१५३॥ अनञः क्त्वो यप् । ३।२।१५४॥ नञोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदं तदवयवस्य 'क्त्वो यप्' स्यात् । प्रकृत्य । अनत्र इति किम् ? अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव - अलं कृत्वा ॥ १५४ ॥ पृषोदरादयः ।३।२।१५५ ॥ 'एते साधवः स्युः' । पृषोदरः, बलाहकः || १५५ ॥ वाडवाऽप्योस्तनि-की धागू - नहोर्व - पी ।३।२।१५६॥ ' अवस्योपसर्गस्य तनिक्रियोरपेश्च धाग्-नहोर्परयोर्यथासंख्यं व पी वा' स्याताम् । वतंसः, अवतंसः; वक्रयः, अवक्रयः; पिहितम्, अपिहितम्; पिनद्धम्, अपिनद्धम् ॥१५६॥ इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्ती तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः || ३|२|| श्रीमद्-वल्लभराजस्य, प्रतापः कोऽपि दुःसहः । प्रसरन् वैरिभूपेषु दीर्घनीद्रामकल्पयत् ||१०|| (तृतीयः पादः ) ( अथाऽऽख्यातप्रकरणम्)
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy