SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १६१ उत्तरपदे परे 'बहुव्रीहौ सहस्य सः संज्ञायाम् स्यात् । साश्वत्थं वनम् । अन्यार्थ इत्येव - सहदेवः कुरुः || १४४ || अदृश्या - Sधिके । ३।२।१४५ ॥ अदृश्यम् - परोक्षम्, अधिकम् - अधिरूढं तदर्थयोरुत्तरपदयोर्बहुव्रीही 'सहस्य सः' स्यात् । साग्निः कपोतः सद्रोणा खारी || १४५ || अकालेऽव्ययीभावे |३|२|१४६ ॥ , अकालवाचिन्युत्तरपदे 'सहस्याव्ययीभावे सः' स्यात् । सब्रह्म साधूनाम् । अकाल इति किम् ? सहपूर्वाह्नं शेते । अव्ययीभाव इति किम् ? सहयुध्वा ॥ ग्रन्थाऽन्ते | ३ |२| १४७॥ एतद्वाच्युत्तरपदे 'सहस्याव्ययीभावे सः' स्यात् । सकलं ज्योतिषमधीते ॥ नाऽऽ शिष्यगो - वत्स-हले १३।२।१४८ ॥ गवादिवर्जे उत्तरपदे आशिषि गम्यायाम् 'सहस्य सो न' स्यात् । स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् ? सपुत्रः । गवादिवर्जनं किम् ? स्वस्ति तुभ्यं सगवे, सहगवे; सवत्साय, सहवत्साय; सहलाय, सहहलाय ॥ समानस्य धर्माऽऽदिषु |३|२|१४९॥ धर्मादावुत्तरपदे 'समानस्य सः स्यात् । सधर्मा, सनामा ॥ १४९ ॥ सब्रह्मचारी |३|२|१५०॥ अयं निपात्यते ॥ १५०॥ दृक्-दृश-वृक्षे ।३।२।१५१ ॥ एषूत्तरपदेषु 'समानस्य सः' स्यात् । सदृक् सदृशः, सदृक्षः ||१५१ ॥ अन्य - त्यदादेराः । ३।२।१५२॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः' स्यात् । अन्यादृक्, अन्यादृशः,
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy