SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ पञ्चमः श्राद्धविधिप्रकरणम् प्रकाशः दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अशुभत् प्रतिमा नीलवासोभिरिव पूजिता ॥ आरात्रिकं जिनार्चायाः कृतं श्राद्धैवलच्छिखम् । दीप्यमानौषधिचक्रशैलशृङ्गविडम्बकम् ॥ वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतो भूयः स्वयमाचकृषे रथः ॥ नागरीभिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधातोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजां प्रत्यहं प्रतिमन्दिरम् ॥ बहुलैः कङ्कमाम्भोभिरभिषिक्ताग्रभूतलः । संप्रतेः सदनद्वारमाससाद शनै रथः ॥ त्रिभिविशेषकम् ॥ राजाऽपि संप्रतिरथ रथपूजार्थमुद्यतः । आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥ रथाधिरूढां प्रतिमां पूजयाऽष्टप्रकारया । अपूजयन्नवानन्दसरोहंसोऽवनीपतिः ॥ महापद्मचक्रिणापि मातुर्मनोरथपूर्तये रथयात्राऽत्याडंबरैश्चके । कुमारपालरथयात्रा त्वेवमुक्ताचित्तस्स अट्ठमिदिणे चउत्थमिदिणे चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसद्दो ॥ सोवनजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥ ण्हविअविलित्तं कुसुमोहपूअं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥ AAAAAAAAAAAAAAAAAAAAAAAAA ४४४
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy